पठन सामग्री
पुरुषार्थसिद्ध्युपाय — मूल संस्कृत पाठ
आचार्य अमृतचन्द्र विरचित पुरुषार्थसिद्ध्युपाय (जिनप्रवचनरहस्यकोष) के 226 श्लोकों का पूर्ण, अनुभागबद्ध और खोजयोग्य मूल संस्कृत पाठ।
मूल पाठ
अक्षर आकार ऊपर से बदलेंभूमिका : श्लोक १–२०
तज् जयति परं ज्योतिः समं समस्तैर् अनन्तपर्यायैः ।
दर्पणतल इव सकला प्रतिफलति पदार्थमालिका यत्र ॥ १ ॥
परमागमस्य बीजं निषिद्धजात्यन्धसिन्धुरविधानम् ।
सकलनयविलसितानां विरोधमथनं नमाम्य् अनेकान्तम् ॥ २ ॥
लोकत्रयैकनेत्रं निरूप्य परमागमं प्रयत्नेन ।
अस्माभिर् उपोद्ध्रियते विदुषां पुरुषार्थसिद्ध्युपायोऽयम् ॥ ३ ॥
मुख्योपचारविवरणनिरस्तदुस्तरविनेयदुर्बोधाः ।
व्यवहारनिश्चयज्ञाः प्रवर्तयन्ते जगति तीर्थम् ॥ ४ ॥
निश्चयम् इह भूतार्थं व्यवहारं वर्णयन्त्य् अभूतार्थम् ।
भूतार्थबोधविमुखः प्रायः सर्वोऽअपि संसारः ॥ ५ ॥
अबुधस्य बोधनार्थं मुनीश्वरा देशयन्त्य् अभूतार्थम् ।
व्यवहारम् एव केवलम् अवैति यस् तस्य देशना नास्ति ॥ ६ ॥
माणवक एव सिंहो यथा भवत्य् अनवगतसिंहस्य ।
व्यवहार एव हि तथा निश्चयतां यात्य् अनिश्चयज्ञस्य ॥ ७ ॥
व्यवहारनिश्चयो यः प्रबुध्य तत्त्वेन भवति मध्यस्थः ।
प्राप्नोति देशनायाः स एव फलम् अविकलं शिष्यः ॥ ८ ॥
अस्ति पुरुषश् चिदात्मा विवर्जितः स्पर्शगन्धरसवर्णैः ।
गुणपर्ययसमवेतः समाहितः समुदयव्ययध्रौव्यैः ॥ ९ ॥
परिणममाणो नित्यं ज्ञानविवर्त्तैर् अनादिसन्तत्या ।
परिणामानां स्वेषां स भवति कर्त्ता च भोक्ता च ॥ १० ॥
सर्वविवर्त्तोत्तीर्णं यदा स चैतन्यम् अचलम् आप्नोति ।
भवति तदा कृतकृत्यः सम्यक्पुरुषसिद्धिम् आपन्नः ॥ ११ ॥
जीवकृतं परिणामं निमित्तमात्रं प्रपद्य पुनर् अन्ये ।
स्वयम् एव परिणामन्तेऽत्र पुद्गलाः कर्मभावेन ॥ १२ ॥
परिणममाणस्य चितश् चिदात्मकैः स्वयम् अपि स्वकैर् भावैः ।
भवति हि निमित्तमात्रं पौद्गलिकं कर्म तस्यापि ॥ १३ ॥
एवम् अयं कर्मकृतैर् भावैर् असमाहितोऽपि युक्त इव ।
प्रतिभाति बालिशानां प्रतिभासः स खलु भवबीजम् ॥ १४ ॥
विपरीताभिनिवेशं निरस्य सम्यग् व्यवस्य निजतत्त्वम् ।
यत् तस्माद् अविचलं स एव पुरुषार्थसिद्ध्युपायोऽयम् ॥ १५ ॥
अनुसरतां पदम् एतत् करम्बिताचारनित्यनिरभिमुखाः ।
एकान्तविरतिरूपा भवति मुनीनाम् अलौकिकी वृत्तिः ॥ १६ ॥
बहुशः समस्तविरतिप्रदर्शितां यो न जातु गृह्णाति ।
तस्यैकदेशविरतिः कथनीयोऽनेन बीजेन ॥ १७ ॥
यो यतिधर्मम् अकथयन्न् उपदिशति गृहस्थधर्मम् अल्पमतिः ।
तस्य भगवत्प्रवचने प्रदर्शितं निग्रहस्थानम् ॥ १८ ॥
अक्रमकथनेन यतः प्रोत्सहमानोऽतिदूरम् अपि शिष्यः ।
अपदेऽपि संप्रतृप्तः प्रतारितो भवति तेन दुर्मतिना ॥ १९ ॥
एवं सम्यग्दर्शनबोधचरित्रत्रयात्मको नित्यम् ।
तस्यापि मोक्षमार्गो भवति निषेव्यो यथाशक्तिः ॥ २० ॥
सम्यग्दर्शन : श्लोक २१–३०
तत्रादौ सम्यक्त्वं समुपाश्रयणीयम् अखिलयत्नेन ।
तस्मिन् सत्य् एव यतो भवति ज्ञानं चरित्रं च ॥ २१ ॥
जीवाजीवादीनां तत्त्वानां सदैव कर्तव्यम् ।
श्रद्धानं विपरीताभिनिवेशविविक्तम् आत्मरूपं तत् ॥ २२ ॥
सकलम् अनेकान्तात्मकम् इदम् उक्तं वस्तुजातम् अखिलज्ञैः ।
किम् उ सत्यम् असत्यं वा न जातु शङ्केति कर्तव्या ॥ २३ ॥
इह जन्मनि विभवादीन् अमुत्र चक्रित्वकेशवत्वादीन् ।
एकान्तवाददूषितपरसमयान् अपि च नाकाङ्क्षेत ॥ २४ ॥
क्षुत्तृष्णाशीतोष्णप्रभृतिषु नानाविधेषु भावेषु ।
द्रव्येषु पुरीषादिषु विचिकित्सा नैव करणीया ॥ २५ ॥
लोके शास्त्राभासे समयाभासे च देवताभासे ।
नित्यम् अपि तत्त्वरुचिना कर्तव्यम् अमूढदृष्टित्वम् ॥ २६ ॥
धर्मोऽभिवर्धनीयः सदात्मनो मार्दवादिभावनया ।
परदोषनिगूहनम् अपि विधेयम् उपबृंहणगुणार्थम् ॥ २७ ॥
कामक्रोधमदादिषु चलयितुम् उदितेषु वर्त्मनो न्यायात् ।
श्रुतम् आत्मनः परस्य च युक्त्या स्थितिकरणम् अपि कार्यम् ॥ २८ ॥
अनवरतम् अहिंसायां शिवसुखलक्ष्मीनिबन्धने धर्मे ।
सर्वेष्व् अपि च सधर्मिषु परमं वात्सल्यम् आलम्ब्यम् ॥ २९ ॥
आत्मा प्रभावनीयो रत्नत्रयतेजसा सततम् एव ।
दानतपोजिनपूजाविद्यातिशयैश् च जिनधर्मः ॥ ३० ॥
सम्यग्ज्ञान : श्लोक ३१–३६
इत्याश्रितसम्यक्त्वैः सम्यग्ज्ञानं निरूप्य यत्नेन ।
आम्नाययुक्तियोगैः समुपास्यं नित्यम् आत्महितैः ॥ ३१ ॥
पृथगाराधनम् इष्टं दर्शनसहभाविनोऽपि बोधस्य ।
लक्षणभेदेन यतो नानात्वं सम्भवत्य् अनयोः ॥ ३२ ॥
सम्यग्ज्ञानं कार्यं सम्यक्त्वं कारणं वदन्ति जिनाः ।
ज्ञानाराधनम् इष्टम् सम्यक्त्वानन्तरं तस्मात् ॥ ३३ ॥
कारणकार्यविधानं समकालं जायमानयोर् अपि हि ।
दीपप्रकाशयोर् इव सम्यक्त्वज्ञानयोः सुघटम् ॥ ३४ ॥
कर्तव्योऽध्यवसायः सदनेकान्तात्मकेषु तत्त्वेषु ।
संशयविपर्ययानध्यवसायविविक्तम् आत्मरूपं तत् ॥ ३५ ॥
ग्रन्थार्थोभयपूर्णं काले विनयेन सोपधानं च ।
बहुमानेन समन्वितम् अनिह्नवं ज्ञानाराध्यम् ॥ ३६ ॥
सम्यग्चरित्र : श्लोक ३७–२२६
विगलितदर्शनमोहैः समञ्जसज्ञानविदिततत्त्वार्थैः ।
नित्यम् अपि निःप्रकम्पैः सम्यक्चारित्रम् आलम्ब्यम् ॥ ३७ ॥
न हि सम्यग्व्यपदेशं चरित्रम् अज्ञानपूर्वकं लभते ।
ज्ञानानन्तरम् उक्तं चारित्राराधनं तस्मात् ॥ ३८ ॥
चारित्रं भवति यतः समस्तसावद्ययोगपरिहरणात् ।
सकलकषायविमुक्तं विशदम् उदासीनं आत्मरूपं तत् ॥ ३९ ॥
हिंसातोऽनृतवचनात् स्तेयाद् अब्रह्मतः परिग्रहतः ।
कार्स्त्न्यैकदेशविरतेश् चारित्रं जायते द्विविधम् ॥ ४० ॥
निरतः कार्स्त्न्यनिवृत्तौ भवति यतिः समयसारभूतोऽयम् ।
या त्व् एकदेशविरतिर् निरतस् तस्याम् उपासको भवति ॥ ४१ ॥
आत्मपरिणामहिंसनहेतुत्वात् सर्वम् एव हिंसैतत् ।
अनृतवचनादि केवलम् उदाहृतं शिष्यबोधाय ॥ ४२ ॥
यत् खलु कषाययोगात् प्राणानां द्रव्यभावरूपाणाम् ।
व्यपरोपणस्य कारणं सुनिश्चिता भवति सा हिंसा ॥ ४३ ॥
अप्रादुर्भावः खलु रागादीनां भवति अहिंसेति ।
तेषाम् एवोत्पत्तिर् हिंसेति जिनागमस्य संक्षेपः ॥ ४४ ॥
युक्ताचरणस्य सतो रागाद्यावेशम् अन्तरेणापि ।
न हि भवति जातु हिंसा प्राणव्यपरोपणाद् एव ॥ ४५ ॥
व्युत्थानावस्थायां रागादीनां वशप्रवृत्तायाम् ।
म्रियन्तां जीवो मा वा धावत्य् अग्रे ध्रुवं हिंसा ॥ ४६ ॥
यस्मात् सकषायः सन् हन्त्य् आत्मा प्रथमम् आत्मनात्मानम् ।
पश्चाज् जायेत न वा हिंसा प्राण्यन्तराणां तु ॥ ४७ ॥
हिंसायाम् अविरमणं हिंसोपरिणमनम् अपि भवति हिंसा ।
तस्मात् प्रमत्तयोगे प्राणव्यपरोपणं नित्यम् ॥ ४८ ॥
सूक्ष्मापि न खलु हिंसा परवस्तुनिबन्धना भवति पुंसः ।
हिंसायतननिवृत्तिः परिणामविशुद्धये तद् अपि कार्या ॥ ४९ ॥
निश्चयम् अबुध्यमानो यो निश्चयतस् तम् एव संश्रयते ।
नाशयति करणचरणं स बहिःकरणालसो बालः ॥ ५० ॥
अविधायापि हि हिंसां हिंसाफलभाजनं भवति एकः ।
कृत्वाप्य् अपरो हिंसां हिंसाफलभाजनं न स्यात् ॥ ५१ ॥
एकस्याल्पा हिंसा ददाति काले फलम् अनल्पम् ।
अन्यस्य महाहिंसा स्वल्पफला भवति परिपाके ॥ ५२ ॥
एकस्य सैव तीव्रं दिशति फलं सैव मन्दम् अन्यस्य ।
व्रजति सहकारिणोर् अपि हिंसा वैचित्र्यम् अत्र फलकाले ॥ ५३ ॥
प्राग् एव फलति हिंसाऽक्रियमाणा फलति फलति च कृतापि ।
आरभ्य कर्तुम् अकृतापि फलति हिंसानुभावेन ॥ ५४ ॥
एकः करोति हिंसां भवन्ति फलभागिनो बहवः ।
बहवो विदधति हिंसां हिंसाफलभुग् भवत्य् एकः ॥ ५५ ॥
कस्यापि दिशति हिंसा हिंसाफलम् एकम् एव फलकाले ।
अन्यस्य सैव हिंसा दिशत्य् अहिंसाफलं विपुलम् ॥ ५६ ॥
हिंसाफलम् अपरस्य तु ददात्य् अहिंसा तु परिणामे ।
इतरस्य पुनर् हिंसा दिशत्य् अहिंसाफलं नान्यत् ॥ ५७ ॥
इति विविधभङ्गगहने सुदुस्तरे मार्गमूढदृष्टीनाम् ।
गुरवो भवन्ति शरणं प्रबुद्धनयचक्रसंचाराः ॥ ५८ ॥
अत्यन्तनिशितधारं दुरासदं जिनवरस्य नयचक्रम् ।
खण्डयति धार्यमाणं मूर्धानं झटिति दुर्विदग्धानाम् ॥ ५९ ॥
अवबुध्य हिंस्यहिंसकहिंसा हिंसाफलानि तत्त्वेन ।
नित्यम् अवगूहमानैर् निजशक्त्या त्यज्यतां हिंसा ॥ ६० ॥
मद्यं मांसं क्षौद्रं पञ्चोदुम्बरफलानि यत्नेन ।
हिंसाव्युपरतिकामैर् मोक्तव्यानि प्रथमम् एव ॥ ६१ ॥
मद्यं मोहयति मनो मोहितचित्तस् तु विस्मरति धर्मम् ।
विस्मृतधर्मो जीवो हिंसाम् अविशङ्कम् आचरति ॥ ६२ ॥
रसजानां च बहूनां जीवाणां योनिर् इष्यते मद्यम् ।
मद्यं भजतां तेषां हिंसा संजायतेऽवश्यम् ॥ ६३ ॥
अभिमानभयजुगुप्साहास्यारतिशोककामकोपाद्याः ।
हिंसायाः पर्यायाः सर्वेऽपि च शरकसन्निहिताः ॥ ६४ ॥
न विना प्राणविघातान् मांसस्योत्पत्तिर् इष्यते यस्मात् ।
मांसं भजतस् तस्मात् प्रसरत्य् अनिवारिता हिंसा ॥ ६५ ॥
यद् अपि किल भवति मांसं स्वयम् एव मृतस्य महिषवृषभादेः ।
तत्रापि भवति हिंसा तदाश्रितनिगोदनिर्मथनात् ॥ ६६ ॥
आमास्व् अपि पक्वास्व् अपि विपच्यमानासु मांसपेशीषु ।
सातत्येनोत्पादस् तज्जातीनां निगोदानाम् ॥ ६७ ॥
आमां व पक्वां व खादति यः स्पृशति वा पिशितपेशीम् ।
स निहन्ति सततनिचितं पिण्डं बहुजीवकोटीनाम् ॥ ६८ ॥
मधुशकलम् अपि प्रायो मधुकरहिंसात्मकं भवति लोके ।
भजति मधु मूढधीको यः स भवति हिंसकोऽत्यन्तम् ॥ ६९ ॥
स्वयम् एव विगलितं यो गृह्णीयाद् वा छलेन मधुगोलात् ।
तत्रापि भवति हिंसा तदाश्रयप्राणिनां घातात् ॥ ७० ॥
मधु मद्यं नवनीतं पिशितं च महाविकृतयस् ताः ।
वल्भ्यन्ते न व्रतिना तद्वर्णा जन्तवस् तत्र ॥ ७१ ॥
योनिर् उदुम्बरयुग्मं प्लक्षन्यग्रोधपिप्पलफलानि ।
त्रसजीवानां तस्मात् तेषां तद्भक्षणे हिंसा ॥ ७२ ॥
यानि तु पुनर् भवेयुः कालोच्छन्नत्रसानि शुष्काणि ।
भजतस् तान्य् अपि हिंसा विशिष्टरागादिरूपा स्यात् ॥ ७३ ॥
अष्टाव् अनिष्टदुस्तरदुरितायतनान्य् अमूनि परिवर्ज्य ।
जिनधर्मदेशनाया भवन्ति पात्राणि शुद्धधियः ॥ ७४ ॥
धर्मम् अहिंसारूपं संशृण्वन्तोऽपि ये परित्यक्तुम् ।
स्थावरहिंसाम् असहास् त्रसहिंसां तेऽपि मुञ्चन्तु ॥ ७५ ॥
कृतकारितानुमतैर् वाक्कायमनोभिर् इष्यते नवधा ।
औत्सर्गिकी निवृत्तिर् विचित्ररूपापवादिकी त्व् एषा ॥ ७६ ॥
स्तोकैकेन्द्रियघाताद् गृहीणां सम्पन्नयोग्यविषयाणाम् ।
शेषस्थावरमारणविरमणम् अपि भवति करणीयम् ॥ ७७ ॥
अमृतत्वहेतुभूतं परमम् अहिंसारसायनं लब्ध्वा ।
अवलोक्य बालिशानाम् असमञ्जसम् आकुलैर् न भवितव्यम् ॥ ७८ ॥
सूक्ष्मो भगवान् धर्मो धर्मार्थं हिंसने न दोषोऽस्ति ।
इति धर्ममुग्धहृदयैर् न जातु भूत्वा शरीरिणो हिंस्याः ॥ ७९ ॥
धर्मो हि देवताभ्यः प्रभवति ताभ्यः प्रदेयम् इह सर्वम् ।
इति दुर्विवेककलितां धिषणां न प्राप्य देहिनो हिंस्याः ॥ ८० ॥
पूज्यनिमित्तं घाते छागादीनां न कोऽपि दोषोऽस्ति ।
इति संप्रधार्य कार्यं नातिथये सत्त्वसंज्ञपनम् ॥ ८१ ॥
बहुसत्त्वघातजनिताद् अशनाद् वरम् एकसत्त्वघातोत्थम् ।
इत्य् आकलय्य कार्यं न महासत्त्वस्य हिंसनं जातु ॥ ८२ ॥
रक्षा भवति बहूनाम् एकस्यैवास्य जीवहरणेन ।
इति मत्वा कर्तव्यं न हिंसनं हिंस्रसत्त्वानाम् ॥ ८३ ॥
बहुसत्त्वघातिनोऽमी जीवन्त उपार्जयन्ति गुरु पापम् ।
इत्य् अनुकम्पां कृत्वा न हिंसनीयाः शरीरिणो हिंस्राः ॥ ८४ ॥
बहुदुःखाः संज्ञपिताः प्रयान्ति त्व् अचिरेण दुःखविच्छित्तिम् ।
इति वासनाकृपाणीम् आदाय न दुःखिनोऽपि हन्तव्याः ॥ ८५ ॥
कृच्छ्रेण सुखावाप्तिर् भवन्ति सुखिनो हताः सुखिन एव ।
इति तर्कमण्डलाग्रः सुखिनां घाताय नादेयः ॥ ८६ ॥
उपलब्धिसुगतिसाधनसमाधिसारस्य भूयसोऽभ्यासात् ।
स्वगुरोः शिष्येण शिरो न कर्तनीयं सुधर्मम् अभिलषता ॥ ८७ ॥
धनलवपिपासितानां विनेयविश्वासनाय दर्शयताम् ।
झटिति घटचटकमोक्षं श्रद्धेयं नैव खारपटिकानाम् ॥ ८८ ॥
दृष्ट्वा परं पुरस्ताद् अशनाय क्षामकुक्षिम् आयान्तम् ।
निजमांसदानरभसाद् आलभनीयो न चात्मापि ॥ ८९ ॥
को नाम विशति मोहं नयभङ्गविशारदान् उपास्य गुरून् ।
विदितजिनमतरहस्यः श्रयन्न् अहिंसां विशुद्धमतिः ॥ ९० ॥
यद् इदं प्रमादयोगाद् असदभिधानं विधीयते किमपि ।
तद् अनृतम् अपि विज्ञेयं तद्भेदाः सन्ति चत्वारः ॥ ९१ ॥
स्वक्षेत्रकालभावैः सद् अपि हि यस्मिन् निषिध्यते वस्तु ।
तत् प्रथमम् असत्यं स्यान् नास्ति यथा देवदत्तोऽत्र ॥ ९२ ॥
असद् अपि हि वस्तुरूपं यत्र परक्षेत्रकालभावैस् तैः ।
उद्भाव्यते द्वितीयं तद् अनृतम् अस्मिन् यथास्ति घटः ॥ ९३ ॥
वस्तु सद् अपि स्वरूपात् पररूपेणाभिधीयते यस्मिन् ।
अनृतम् इदं च तृतीयं विज्ञेयं गौर् इति यथाश्वः ॥ ९४ ॥
गर्हितम् अवद्यसंयुतम् अप्रियम् अपि भवति वचनरूपं यत् ।
सामान्येन त्रेधा मतम् इदम् अनृतं तुरीयं तु ॥ ९५ ॥
पैशुन्यहासगर्भं कर्कशम् असमञ्जसं प्रलपितं च ।
अन्यद् अपि यद् उत्सूत्रं तत् सर्वं गर्हितं गदितम् ॥ ९६ ॥
छेदनभेदनमारणकर्षणवाणिज्यचौर्यवचनादि ।
तत् सावद्यं यस्मात् प्राणिवधाद्याः प्रवर्तन्ते ॥ ९७ ॥
अरतिकरं भीतिकरं खेदकरं वैरशोककलहकरम् ।
यद् अपरम् अपि तापकरं परस्य तत् सर्वम् अप्रियं ज्ञेयं ॥ ९८ ॥
सर्वस्मिन्न् अप्य् अस्मिन् प्रमत्तयोगैकहेतुकथनं यत् ।
अनृतवचनेऽपि तस्मान् नियतं हिंसां समवसरति ॥ ९९ ॥
हेतौ प्रमत्तयोगे निर्दिष्टे सकलवितथवचनानाम् ।
हेयानुष्ठानादेर् अनुवदनं भवति नासत्यम् ॥ १०० ॥
भोगोपभोगसाधनमात्रं सावद्यम् अक्षमा मोक्तुम् ।
ये तेऽपि शेषम् अनृतं समस्तम् अपि नित्यम् एव मुञ्चन्तु ॥ १०१ ॥
अवितीर्णस्य ग्रहणं परिग्रहस्य प्रमत्तयोगाद् यत् ।
तत् प्रत्येयं स्तेयं सैव च हिंसा वधस्य हेतुत्वात् ॥ १०२ ॥
अर्था नाम य एते प्राणा एते बहिश्चराः पुंसाम् ।
हरति स तस्य प्राणान् यो यस्य जनो हरत्य् अर्थान् ॥ १०३ ॥
हिंसायां स्तेयस्य च नाव्याप्तिः सुघट एव सा यस्मात् ।
ग्रहणे प्रमत्तयोगो द्रव्यस्य स्वीकृतस्यान्यैः ॥ १०४ ॥
नातिव्याप्तिश् च तयोः प्रमत्तयोगैककारणविरोधात् ।
अपि कर्मानुग्रहणे नीरागाणाम् अविद्यमानत्वात् ॥ १०५ ॥
असमर्था ये कर्तुं निपानतोयादिहरणविनिवृत्तिम् ।
तैर् अपि समस्तम् परं नित्यम् अदत्तं परित्याज्यम् ॥ १०६ ॥
यद् वेदरागयोगान् मैथुनम् अभिधीयते तद् अब्रह्म ।
अवतरति तत्र हिंसा वधस्य सर्वत्र सद्भावात् ॥ १०७ ॥
हिंस्यन्ते तिलनाल्यां तप्तायसि विनिहिते तिला यद्वत् ।
बहवो जीवा योनौ हिंस्यन्ते मैथुने तद्वत् ॥ १०८ ॥
यद् अपि क्रियते किंचिन् मदनोद्रेकाद् अनङ्गरमणादि ।
तत्रापि भवति हिंसा रागाद्युत्पत्तितन्त्रत्वात् ॥ १०९ ॥
ये निजकलत्रमात्रं परिहर्तुं शक्नुवन्ति न हि मोहात् ।
निःशेषशेषयोषिन्निषेवणं तैर् अपि न कार्यम् ॥ ११० ॥
या मूर्च्छा नामेयं विज्ञातव्यः परिग्रहो ह्य् एषः ।
मोहोदयाद् उदीर्णो मूर्च्छा तु ममत्वपरिणामः ॥ १११ ॥
मूर्च्छालक्षणकरणात् सुघटा व्याप्तिः परिग्रहत्वस्य ।
सग्रन्थो मूर्च्छावान् विनापि किल शेषसङ्गेभ्यः ॥ ११२ ॥
यद्य् एवं भवति तदा परिग्रहो न खलु कोऽपि बहिरङ्गः ।
भवति नितरां यतोऽसौ धत्ते मूर्च्छानिमित्तत्वम् ॥ ११३ ॥
एवम् अतिव्याप्तिः स्यात् परिग्रहस्येति चेद् भवेन् नैवम् ।
यस्माद् अकषायाणां कर्मग्रहणे न मूर्च्छास्ति ॥ ११४ ॥
अतिसंक्षेपाद् द्विविधः स भवेद् आभ्यन्तरश् च बाह्यश् च ।
प्रथमश् चतुर्दशविधो भवति द्विविधो द्वितीयस् तु ॥ ११५ ॥
मिथ्यात्ववेदरागास् तथैव हास्यादयश् च षड्दोषाः ।
चत्वारश् च कषायाश् चतुर्दशाभ्यन्तरा ग्रन्थाः ॥ ११६ ॥
अथ निश्चित्तसचित्तौ बाह्यस्य परिग्रहस्य भेदौ द्वौ ।
नैषः कदापि सङ्गः सर्वोऽप्य् अतिवर्तते हिंसाम् ॥ ११७ ॥
उभयपरिग्रहवर्जनम् आचार्याः सूचयन्त्य् अहिंसेति ।
द्विविधपरिग्रहवहनं हिंसेति जिनप्रवचनज्ञाः ॥ ११८ ॥
हिंसापर्यायत्वात् सिद्धा हिंसान्तरङ्गसङ्गेषु ।
बहिरङ्गेषु तु नियतं प्रयातु मूर्च्छैव हिंसात्वम् ॥ ११९ ॥
एवं न विशेषः स्याद् उन्दररिपुहरिणशावकादीनाम् ।
नैवं भवति विशेषस् तेषां मूर्च्छाविशेषेण ॥ १२० ॥
हरिततृणाङ्कुरचारिणी मन्दा मृगशावके भवति मूर्च्छा ।
उन्दरनिकरोन्माथिनि मार्जारे सैव जायते तीव्रा ॥ १२१ ॥
निर्बाधं संसिद्ध्येत् कार्यविशेषो हि कारणविशेषात् ।
औधस्यखण्डयोर् इव माधुर्यप्रीतिभेद इव ॥ १२२ ॥
माधुर्यप्रीतिः किल दुग्धे मन्दैव मन्दमाधुर्ये ।
सैवोत्कटमाधुर्ये खण्डे व्यवदिश्यते तीव्रा ॥ १२३ ॥
तत्त्वार्थश्रद्धाने निर्युक्तं प्रथमम् एव मिथ्यात्वम् ।
सम्यक्दर्शनचौराः प्रथमकषायाश् च चत्वारः ॥ १२४ ॥
प्रविहाय च द्वितीयान् देशचरित्रस्य संमुखायातः ।
नियतं ते हि कषाया देशचरित्रं निरुद्धयन्ति ॥ १२५ ॥
निजशक्त्या शेषाणाम् सर्वेषाम् अन्तरङ्गसंगानाम् ।
कर्तव्यः परिहारो मार्दवशौचादिभावनया ॥ १२६ ॥
बहिरङ्गाद् अपि सङ्गाद् यस्मात् प्रभवत्य् असंयमोऽनुचितः ।
परिवर्जयेद् अशेषं तम् अचित्तं वा सचित्तं वा ॥ १२७ ॥
सोऽपि न शक्तस् त्यक्तुं धनधान्यमनुष्यवास्तुवित्तादि ।
सोऽपि तनूकरणीयः निवृत्तिरूपं यतस् तत्त्वम् ॥ १२८ ॥
रात्रौ भुञ्जानानां यस्माद् अनिवारिता भवति हिंसा ।
हिंसाविरतैस् तस्मात् त्यक्तव्या रात्रिभुक्तिर् अपि ॥ १२९ ॥
रागाद्युदयपरत्वाद् अनिवृत्तिर् नातिवर्तते हिंसाम् ।
रात्रिं दिवम् आहरतः कथं हि हिंसा न संभवति ॥ १३० ॥
यद्य् एवं तर्हि दिवा कर्तव्यो भोजनस्य परिहारः ।
भोक्तव्यं तु निशायां नेत्थं नित्यं भवति हिंसा ॥ १३१ ॥
नैवं वासरभुक्तेर् भवति हि रागोऽधिको रजनिभुक्तौ ।
अन्नकवलस्य भुक्तौ भुक्ताव् इव मांसकवलस्य ॥ १३२ ॥
अर्कालोकेन विना भुञ्जानः परिहरेत् कथं हिंसाम् ।
अपि बोधितः प्रदीपे भोज्यजुषां सूक्ष्मजन्तूनाम् ॥ १३३ ॥
किं वा बहुप्रलपितैर् इति सिद्धं यो मनोवचनकायैः ।
परिहरति रात्रिभुक्तिं सततम् अहिंसां स पालयति ॥ १३४ ॥
इत्य् अत्र त्रितयात्मनि मार्गे मोक्षस्य ये स्वहितकामाः ।
अनुपरतं प्रयतन्ते प्रयान्ति ते मुक्तिम् अचिरेण ॥ १३५ ॥
परिधय इव नगराणि व्रतानि किल पालयन्ति शीलानि ।
व्रतपालनाय तस्माच् छीलान्य् अपि पालनीयानि ॥ १३६ ॥
प्रविधाय सुप्रसिद्धैर् मर्यादां सर्वतोऽप्य् अभिज्ञानैः ।
प्राच्यादिभ्यो दिग्भ्यः कर्तव्या विरतिर् अविचलिता ॥ १३७ ॥
इति नियमितदिग्भागे प्रवर्तते यस् ततो बहिस् तस्य ।
सकलासंयमविरहाद् भवत्य् अहिंसाव्रतं पूर्णम् ॥ १३८ ॥
तत्रापि च परिमाणं ग्रामापणभवनपाटकादीनाम् ।
प्रविधाय नियतकालं करणीयं विरमणं देशात् ॥ १३९ ॥
इति विरतौ बहुदेशात् तदुत्थहिंसां विशेषपरिहारात् ।
तत्कालं विमलमतिः श्रयत्य् अहिंसां विशेषेण ॥ १४० ॥
पापर्द्धिजयपराजयसंगरपरदारगमनचौर्याद्याः ।
न कदाचनापि चिन्त्याः पापफलं केवलं यस्मात् ॥ १४१ ॥
विद्यावाणिज्यमषीकृषिसेवाशिल्पजीविनां पुंसाम् ।
पापोपदेशदानं कदाचिद् अपि नैव वक्तव्यम् ॥ १४२ ॥
भूखननवृक्षमोटनशाड्वलदलनाम्बुसेचनादीनि ।
निःकारणं न कुर्याद् दलफलकुसुमोच्चयान् अपि च ॥ १४३ ॥
असिधेनुविषहुताशनलाङ्गलकरवालकार्मुकादीनाम् ।
वितरणम् उपकरणानां हिंसायाः परिहरेद् यत्नात् ॥ १४४ ॥
रागादिवर्धनानां दुष्टकथानाम् अबोधबहुलानाम् ।
न कदाचन कुर्वीत श्रवणार्जनशिक्षणादीनि ॥ १४५ ॥
सर्वानर्थप्रथमं मथनं शौचस्य सद्म मायायाः ।
दूरात् परिहरणीयं चौर्यासत्यास्पदं द्यूतम् ॥ १४६ ॥
एवंविधम् अपरम् अपि ज्ञात्वा मुञ्चत्य् अनर्थदण्डं यः ।
तस्यानिशम् अनवद्यं विजयम् अहिंसाव्रतं लभते ॥ १४७ ॥
रागद्वेषत्यागान् निखिलद्रव्येषु साम्यम् अवलम्ब्य ।
तत्त्वोपलब्धिमूलं बहुशः सामायिकं कार्यम् ॥ १४८ ॥
रजनीदिवयोर् अन्ते तद् अवश्यं भावनीयम् अविचलितम् ।
इतरत्र पुनः समये न कृतं दोषाय तद्गुणाय कृतम् ॥ १४९ ॥
सामायिकं श्रितानां समस्तसावद्ययोगपरिहारात् ।
भवति महाव्रतम् एषाम् उदयेऽपि चरित्रमोहस्य ॥ १५० ॥
सामायिकसंस्कारं प्रतिदिनम् आरोपितं स्थिरीकर्तुम् ।
पक्षार्धयोर् द्वयोर् अपि कर्तव्योऽवश्यम् उपवासः ॥ १५१ ॥
मुक्तसमस्तारम्भः प्रोषधदिनपूर्ववासरस्यार्धे ।
उपवासं गृह्णीयान् ममत्वम् उपहाय देहादौ ॥ १५२ ॥
श्रित्वा विविक्तवसतिं समस्तसावद्ययोगम् अपनीय ।
सर्वेन्द्रियार्थविरतः कायमनोवचनगुप्तिभिस् तिष्ठेत् ॥ १५३ ॥
धर्मध्यानासक्तो वासरम् अतिवाह्य विहितसान्ध्यविधिः ।
शुचिसंस्तरे त्रियामां गमयेत् स्वाध्यायजितनिद्रः ॥ १५४ ॥
प्रातः प्रोत्थाय ततः कृत्वा तात्कालिकं क्रियाकल्पम् ।
निर्वर्त्तयेद् यथोक्तं जिनपूजां प्रासुकैर् द्रव्यैः ॥ १५५ ॥
उक्तेन ततो विधिना नीत्वा दिवसं द्वितीयरात्रिं च ।
अतिवाहयेत् प्रयत्नाद् अर्धं च तृतीयदिवसस्य ॥ १५६ ॥
इति यः षोदश यामान् गमयति परिमुक्तसकलसावद्यः ।
तस्य तदानीं नियतं पूर्णम् अहिंसाव्रतं भवति ॥ १५७ ॥
भोगोपभोगहेतोः स्थावरहिंसा भवेत् किलामीषाम् ।
भोगोपभोगविरहाद् भवति न लेशोऽपि हिंसायाः ॥ १५८ ॥
वाग्गुप्तेर् नास्त्य् अनृतं न समस्तादानविरहतः स्तेयम् ।
नाब्रह्म मैथुनमुचः सङ्गो नाङ्गेऽप्य् अमूर्च्छस्य ॥ १५९ ॥
इत्थम् अशेषितहिंसः प्रयाति स महाव्रतित्वम् उपचारात् ।
उदयति चरित्रमोहे लभेत तु न संयमस्थानम् ॥ १६० ॥
भोगोपभोगमूला विरताविरतस्य नान्यतो हिंसा ।
अधिगम्य वस्तुतत्त्वं स्वं शक्तिम् अपि ताव् अपि त्याज्यौ ॥ १६१ ॥
एकम् अपि प्रजिघांसुर् निहन्त्य् अनन्तान् यतस् ततोऽवश्यम् ।
करणीयम् अशेषाणां परिहरणम् अनन्तकायानाम् ॥ १६२ ॥
नवनीतं च त्याज्यं योनिस्थानं प्रभूतजीवानाम् ।
यद् वापि पिण्डशुद्धौ विरुद्धम् अभिधीयते किंचित् ॥ १६३ ॥
अविरुद्धापि भोगा निजशक्तिम् अवेक्ष्य धीमता त्याज्याः ।
अत्याज्येष्व् अपि सीमा कार्यैकदिवानिशोपभोग्यतया ॥ १६४ ॥
पुनर् अपि पूर्वकृतायां समीक्ष्य तात्कालिकीं निजां शक्तिम् ।
सीमन्य् अन्तर्सीमा प्रतिदिवसं भवति कर्तव्या ॥ १६५ ॥
इति यः परिमितिभोगैः संतुष्टस् त्यजति बहुतरान् भोगान् ।
बहुतरहिंसाविरहात् तस्याहिंसा विशिष्टा स्यात् ॥ १६६ ॥
विधिना दातृगुणवता द्रव्यविशेषस्य जातरूपाय ।
स्वपरानुग्रहहेतोः कर्तव्योऽवश्यम् अतिथये भागः ॥ १६७ ॥
संग्रहम् उच्चस्थानं पादोदकम् अर्चनं प्रणामं च ।
वाक्कायमनःशुद्धिर् एषणशुद्धिश् च विधिम् आहुः ॥ १६८ ॥
ऐहिकफलानपेक्षा क्षान्तिर् निष्कपटतानसूयत्वम् ।
अविषादित्वमुदित्वे निरहङ्कारित्वम् इति हि दातृगुणाः ॥ १६९ ॥
रागद्वेषासंयममददुःखभयादिकं न यत् कुरुते ।
द्रव्यं तद् एव देयं सुतपःस्वाध्यायवृद्धिकरम् ॥ १७० ॥
पात्रं त्रिभेदम् उक्तं संयोगो मोक्षकारणगुणानाम् ।
अविरतसम्यग्दृष्टिर् विरताविरतश् च सकलविरतश् च ॥ १७१ ॥
हिंसायाः पर्यायो लोभोऽत्र निरस्यते यतो दाने ।
तस्माद् अतिथिवितरणं हिंसाव्युपरमणम् एवेष्टम् ॥ १७२ ॥
गृहम् आगताय गुणिने मधुकरवृत्त्या परान्न् अपीडयते ।
वितरति यो नातिथये स कथं न हि लोभवान् भवति ॥ १७३ ॥
कृतम् आत्मार्थं मुनये ददाति भक्तम् इति भावितत्यागः ।
अरतिविषादविमुक्तः शिथिलितलोभो भवत्य् अहिंसैव ॥ १७४ ॥
इयम् एकैव समर्था धर्मस्वं मे मया समं नेतुम् ।
सततम् इति भावनीया पश्चिमसल्लेखना भक्त्या ॥ १७५ ॥
मरणान्तेऽवश्यम् अहं विधिना सल्लेखनां करिष्यामि ।
इति भावनापरिणतो नागतम् अपि पालयेद् इदं शीलम् ॥ १७६ ॥
मरणेऽवश्यं भाविनि कषायसल्लेखनातनूकरणमात्रे ।
रागादिम् अन्तरेण व्याप्रियमाणस्य नात्मघातोऽस्ति ॥ १७७ ॥
यो हि कषायाविष्टः कुम्भकजलधूमकेतुविषशस्त्रैः ।
व्यपरोपयति प्राणान् तस्य स्यात् सत्यम् आत्मवधः ॥ १७८ ॥
नीयन्तेऽत्र कषाया हिंसाया हेतवो यतस् तनुताम् ।
सल्लेखनाम् अपि ततः प्राहुर् अहिंसाप्रसिद्ध्यर्थम् ॥ १७९ ॥
इति यो व्रतरक्षार्थं सततं पालयति सकलशीलानि ।
वरयति पतिंवरेव स्वयम् एव समुत्सुका शिवपदश्रीः ॥ १८० ॥
अतिचाराः सम्यक्त्वे व्रतेषु शीलेषु पञ्च पञ्चेति ।
सप्ततिर् अमी यथोदितशुद्धिप्रतिबन्धिनो हेयाः ॥ १८१ ॥
शङ्का तथैव कांक्षा विचिकित्सा संस्तवोऽन्यदृष्टीनाम् ।
मनसा च तत्प्रशंसा सम्यग्दृष्टेर् अतिचाराः ॥ १८२ ॥
छेदनताडनबन्धा भारस्यारोपणं समधिकस्य ।
पानान्नयोश् च रोधः पञ्चाहिंसाव्रतस्येति ॥ १८३ ॥
मिथ्योपदेशदानं रहसोऽभ्याख्यानकूटलेखकृती ।
न्यासापहारवचनं साकारकमन्त्रभेदश् च ॥ १८४ ॥
प्रतिरूपव्यवहारः स्तेननियोगस् तदाहृतादानम् । राजविरोधातिक्रमहीनाधिकमानकरणे च ॥ १८५ ॥
स्मरतीव्राभिनिवेशानङ्गक्रीडान्यपरिणयनकरणम् ।
अपरिगृहीतेतरयोर् गमने चेत्वरिकयोः पञ्च ॥ १८६॥
वास्तुक्षेत्राष्टापदहिरण्यधनधान्यदासदासीनाम् ।
कुप्यस्य भेदयोर् अपि परिमाणातिक्रमाः पञ्च ॥ १८७ ॥
उर्ध्वम् अधस्तात् तिर्यग् व्यतिक्रमाः क्षेत्रवृद्धिर् आधानाम् ।
स्मृत्यन्तरस्य गदिताः पञ्चेति प्रथमशीलस्य ॥ १८८ ॥
प्रेष्यस्य संप्रयोजनम् आनयनं शब्दरूपविनिपातौ ।
क्षेपोऽपि पुद्गलानां द्वितीयशीलस्य पञ्चेति ॥ १८९ ॥
कन्दर्पः कौत्कुच्यं भोगानर्थक्यम् अपि च मौखर्यम् ।
असमीक्षिताधिकरणं तृतीयशीलस्य पञ्चेति ॥ १९० ॥
वचनमनःकायानां दुःप्रणिधानं त्व् अनादरश् चैव ।
स्मृत्यनुपस्थानयुताः पञ्चेति चतुर्थशीलस्य ॥ १९१ ॥
अनवेक्षिताप्रमार्जितम् आदानं संस्तरस् तथोत्सर्गः ।
स्मृत्यनुपस्थानम् अनादरश् च पञ्चोपवासस्य ॥ १९२ ॥
आहारो हि सचित्तः सचित्तमिश्रः सचित्तसम्बन्धः ।
दुःपक्वोऽभिषवोऽपि च पञ्चामी षष्टशीलस्य ॥ १९३ ॥
परदातृव्यपदेशः सचित्तनिक्षेपतत्पिधाने च ।
कालस्यातिक्रमणं मात्सर्यं चेत्य् अतिथिदाने ॥ १९४ ॥
जीवितमरणाशंसे सुहृदनुरागः सुखानुबन्धश् च ।
सनिदानः पञ्चैते भवन्ति सल्लेखनाकाले ॥ १९५ ॥
इत्य् एतान् अतिचारान् अपि योगी संप्रतर्क्य परिवर्ज्य ।
सम्यक्त्वव्रतशीलैर् अमलैः पुरुषार्थसिद्धिम् एत्य् अचिरात् ॥ १९६ ॥
चरित्रान्तर्भावात् तपोऽपि मोक्षाङ्गम् आगमे गदितम् ।
अनिगूहितनिजवीर्यैस् तद् अपि निषेव्यं समाहितस्वान्तैः ॥१९७॥
अनशनम् अवमौदर्यं विविक्तशय्यासनं रसत्यागः ।
कायक्लेशो वृत्तेः संख्या च निषेव्यम् इति तपो बाह्यम् ॥ १९८ ॥
विनयो वैयावृत्त्यं प्रायश्चित्तं तथैव चोत्सर्गः ।
स्वाध्यायोऽथ ध्यानं भवति निषेव्यं तपोऽन्तरङ्गम् इति ॥ १९९ ॥
जिनपुङ्गवप्रवचने मुनीश्वराणां यद् उक्तम् आचरणम् ।
सुनिरूप्य निजां पदवीं शक्तिं च निषेव्यम् एतद् अपि ॥ २०० ॥
इदम् आवश्यकषट्कं समतास्तववन्दनाप्रतिक्रमणम् ।
प्रत्याख्यानं वपुषो व्युत्सर्गश् चेति कर्तव्यम् ॥ २०१ ॥
सम्यग्दण्डो वपुषः सम्यग्दण्डस् तथा च वचनस्य ।
मनसः सम्यग्दण्डो गुप्तित्रितयं समनुगम्यम् ॥ २०२ ॥
सम्यग्गमनागमनं सम्यग्भाषा तथैषणा सम्यक् ।
सम्यग्ग्रहनिक्षेपौ व्युत्सर्गः सम्यग् इति समितिः ॥ २०३ ॥
धर्मः सेव्यः क्षान्तिः मृदुत्वम् ऋजुता च शौचम् अथ सत्यम् ।
आकिञ्चन्यं ब्रह्म त्यागश् च तपश् च संयमश् चेति ॥ २०४ ॥
अध्रुवम् अशरणम् एकत्वम् अन्यताशौचम् आस्रवो जन्म ।
लोकवृषबोधिसंवरनिर्जराः सततम् अनुप्रेक्ष्याः ॥ २०५ ॥
क्षुत् तृष्णा हिमम् उष्णं नग्नत्वं याचनारतिर् अलाभः ।
दंशो मशकादीनाम् आक्रोशो व्याधिदुःखसंयमनम् ॥ २०६॥
स्पर्शश् च तृणादीनाम् अज्ञानम् अदर्शनं तथा प्रज्ञा ।
सत्कारपुरस्कारः शय्या चर्या वधो निषद्या स्त्री ॥ २०७ ॥
द्वाविंशतिर् अप्य् एते परिषोढव्या परीषहाः सततम् ।
संक्लेशमुक्तमनसा संक्लेशनिमित्तभीतेन ॥ २०८ ॥
इति रत्नत्रयम् एतत् प्रतिसमयं विकलम् अपि गृहस्थेन ।
परिपालनीयम् अनिशं निरत्ययां मुक्तिम् अभिलषिता ॥ २०९ ॥
बद्धोद्यमेन नित्यं लब्ध्वा समयं च बोधिलाभस्य ।
पदम् अवलम्ब्य मुनीनां कर्तव्यं सपदि परिपूर्णम् ॥ २१० ॥
असमग्रं भावयतो रत्नत्रयम् अस्ति कर्मबन्धो यः ।
सविपक्षकृतोऽवश्यं मोक्षोपायो न बन्धनोपायः ॥ २११ ॥
येनांशेन सुदृष्टिस् तेनांशेनास्य बन्धनं नास्ति ।
येनांशेन तु रागस् तेनांशेनास्य बन्धनं भवति ॥ २१२ ॥
येनांशेन ज्ञानं तेनांशेनास्य बन्धनं नास्ति ।
येनांशेन तु रागस् तेनांशेनास्य बन्धनं भवति ॥ २१३॥
येनांशेन चरित्रं तेनांशेनास्य बन्धनं नास्ति ।
येनांशेन तु रागस् तेनांशेनास्य बन्धनं भवति ॥ २१४॥
योगात् प्रदेशबन्धः स्थितिबन्धो भवति यः कषायात् तु ।
दर्शनबोधचरित्रं न योगरूपं कषायरूपं च ॥ २१५॥
दर्शनम् आत्मविनिश्चितिर् आत्मपरिज्ञानम् इष्यते बोधः ।
स्थितिर् आत्मनि चरित्रं कुत एतेभ्यो भवति बन्धः ॥ २१६ ॥
सम्यक्त्वचरित्राभ्यां तीर्थकराहारकर्मणो बन्धः ।
योऽप्य् उपदिष्टः समये न नयविदां सोऽपि दोषाय ॥ २१७ ॥
सति सम्यक्त्वचरित्रे तीर्थकराहारबन्धकौ भवतः ।
योगकषायौ तस्मात् तत् पुनर् अस्मिन्न् उदासीनम् ॥ २१८ ॥
ननु कथम् एव सिद्ध्यतु देवायुःप्रभृतिसत्प्रकृतिबन्धः ।
सकलजनसुप्रसिद्धो रत्नत्रयधारिणं मुनिवराणाम् ॥ २१९ ॥
रत्नत्रयम् इह हेतुर् निर्वाणस्यैव भवति नान्यस्य ।
आस्रवति यत् तु पुण्यं शुभोपयोगोऽयम् अपराधः ॥ २२० ॥
एकस्मिन् समवायाद् अत्यन्तविरुद्धकार्ययोर् अपि हि ।
इह दहति घृतम् इति यथा व्यवहारस् तादृशोऽपि रूढिम् इतः ॥ २२१ ॥
सम्यक्त्वचरित्रबोधलक्षणो मोक्षमार्ग इत्य् एषः ।
मुख्योपचाररूपः प्रापयति परं पदं पुरुषम् ॥ २२२ ॥
नित्यम् अपि निरुपलेपः स्वरूपसमवस्थितो निरुपघातः ।
गगनम् इव परमपुरुषः परमपदे स्फुरति विशदतमः ॥ २२३॥
कृतकृत्यः परमपदे परमात्मा सकलविषयविषयात्मा ।
परमानन्दनिमग्नो ज्ञानमयो नन्दति सदैव ॥ २२४॥
एकेनाकर्षन्ती श्लथयन्ती वस्तुतत्त्वम् इतरेण ।
अन्तेन जयति जैनीनीतिर् मन्थाननेत्रम् इव गोपी ॥ २२५ ॥
वर्णैः कृतानि चित्रैः पदानि तु पदैः कृतानि वाक्यानि ।
वाक्यैः कृतं पवित्रं शास्त्रम् इदं न पुनर् अस्माभिः ॥ २२६॥
इति श्रीमदमृतचन्द्रसूरीणां कृतिः पुरुषार्थसिद्ध्युपायोऽपर नाम जिनप्रवचनरहस्यकोशः समाप्तः ।