पठन सामग्री

पुरुषार्थसिद्ध्युपाय — मूल संस्कृत पाठ

मुक्त लाइसेंस

आचार्य अमृतचन्द्र विरचित पुरुषार्थसिद्ध्युपाय (जिनप्रवचनरहस्यकोष) के 226 श्लोकों का पूर्ण, अनुभागबद्ध और खोजयोग्य मूल संस्कृत पाठ।

मूल ग्रंथ पाठ SanskritDevanagari

मूल पाठ

अक्षर आकार ऊपर से बदलें

भूमिका : श्लोक १–२०

तज् जयति परं ज्योतिः समं समस्तैर् अनन्तपर्यायैः ।
दर्पणतल इव सकला प्रतिफलति पदार्थमालिका यत्र ॥ १ ॥

परमागमस्य बीजं निषिद्धजात्यन्धसिन्धुरविधानम् ।
सकलनयविलसितानां विरोधमथनं नमाम्य् अनेकान्तम् ॥ २ ॥

लोकत्रयैकनेत्रं निरूप्य परमागमं प्रयत्नेन ।
अस्माभिर् उपोद्ध्रियते विदुषां पुरुषार्थसिद्ध्युपायोऽयम् ॥ ३ ॥

मुख्योपचारविवरणनिरस्तदुस्तरविनेयदुर्बोधाः ।
व्यवहारनिश्चयज्ञाः प्रवर्तयन्ते जगति तीर्थम् ॥ ४ ॥

निश्चयम् इह भूतार्थं व्यवहारं वर्णयन्त्य् अभूतार्थम् ।
भूतार्थबोधविमुखः प्रायः सर्वोऽअपि संसारः ॥ ५ ॥

अबुधस्य बोधनार्थं मुनीश्वरा देशयन्त्य् अभूतार्थम् ।
व्यवहारम् एव केवलम् अवैति यस् तस्य देशना नास्ति ॥ ६ ॥

माणवक एव सिंहो यथा भवत्य् अनवगतसिंहस्य ।
व्यवहार एव हि तथा निश्चयतां यात्य् अनिश्चयज्ञस्य ॥ ७ ॥

व्यवहारनिश्चयो यः प्रबुध्य तत्त्वेन भवति मध्यस्थः ।
प्राप्नोति देशनायाः स एव फलम् अविकलं शिष्यः ॥ ८ ॥

अस्ति पुरुषश् चिदात्मा विवर्जितः स्पर्शगन्धरसवर्णैः ।
गुणपर्ययसमवेतः समाहितः समुदयव्ययध्रौव्यैः ॥ ९ ॥

परिणममाणो नित्यं ज्ञानविवर्त्तैर् अनादिसन्तत्या ।
परिणामानां स्वेषां स भवति कर्त्ता च भोक्ता च ॥ १० ॥

सर्वविवर्त्तोत्तीर्णं यदा स चैतन्यम् अचलम् आप्नोति ।
भवति तदा कृतकृत्यः सम्यक्पुरुषसिद्धिम् आपन्नः ॥ ११ ॥

जीवकृतं परिणामं निमित्तमात्रं प्रपद्य पुनर् अन्ये ।
स्वयम् एव परिणामन्तेऽत्र पुद्गलाः कर्मभावेन ॥ १२ ॥

परिणममाणस्य चितश् चिदात्मकैः स्वयम् अपि स्वकैर् भावैः ।
भवति हि निमित्तमात्रं पौद्गलिकं कर्म तस्यापि ॥ १३ ॥

एवम् अयं कर्मकृतैर् भावैर् असमाहितोऽपि युक्त इव ।
प्रतिभाति बालिशानां प्रतिभासः स खलु भवबीजम् ॥ १४ ॥

विपरीताभिनिवेशं निरस्य सम्यग् व्यवस्य निजतत्त्वम् ।
यत् तस्माद् अविचलं स एव पुरुषार्थसिद्ध्युपायोऽयम् ॥ १५ ॥

अनुसरतां पदम् एतत् करम्बिताचारनित्यनिरभिमुखाः ।
एकान्तविरतिरूपा भवति मुनीनाम् अलौकिकी वृत्तिः ॥ १६ ॥

बहुशः समस्तविरतिप्रदर्शितां यो न जातु गृह्णाति ।
तस्यैकदेशविरतिः कथनीयोऽनेन बीजेन ॥ १७ ॥

यो यतिधर्मम् अकथयन्न् उपदिशति गृहस्थधर्मम् अल्पमतिः ।
तस्य भगवत्प्रवचने प्रदर्शितं निग्रहस्थानम् ॥ १८ ॥

अक्रमकथनेन यतः प्रोत्सहमानोऽतिदूरम् अपि शिष्यः ।
अपदेऽपि संप्रतृप्तः प्रतारितो भवति तेन दुर्मतिना ॥ १९ ॥

एवं सम्यग्दर्शनबोधचरित्रत्रयात्मको नित्यम् ।
तस्यापि मोक्षमार्गो भवति निषेव्यो यथाशक्तिः ॥ २० ॥

सम्यग्दर्शन : श्लोक २१–३०

तत्रादौ सम्यक्त्वं समुपाश्रयणीयम् अखिलयत्नेन ।
तस्मिन् सत्य् एव यतो भवति ज्ञानं चरित्रं च ॥ २१ ॥

जीवाजीवादीनां तत्त्वानां सदैव कर्तव्यम् ।
श्रद्धानं विपरीताभिनिवेशविविक्तम् आत्मरूपं तत् ॥ २२ ॥

सकलम् अनेकान्तात्मकम् इदम् उक्तं वस्तुजातम् अखिलज्ञैः ।
किम् उ सत्यम् असत्यं वा न जातु शङ्केति कर्तव्या ॥ २३ ॥

इह जन्मनि विभवादीन् अमुत्र चक्रित्वकेशवत्वादीन् ।
एकान्तवाददूषितपरसमयान् अपि च नाकाङ्क्षेत ॥ २४ ॥

क्षुत्तृष्णाशीतोष्णप्रभृतिषु नानाविधेषु भावेषु ।
द्रव्येषु पुरीषादिषु विचिकित्सा नैव करणीया ॥ २५ ॥

लोके शास्त्राभासे समयाभासे च देवताभासे ।
नित्यम् अपि तत्त्वरुचिना कर्तव्यम् अमूढदृष्टित्वम् ॥ २६ ॥

धर्मोऽभिवर्धनीयः सदात्मनो मार्दवादिभावनया ।
परदोषनिगूहनम् अपि विधेयम् उपबृंहणगुणार्थम् ॥ २७ ॥

कामक्रोधमदादिषु चलयितुम् उदितेषु वर्त्मनो न्यायात् ।
श्रुतम् आत्मनः परस्य च युक्त्या स्थितिकरणम् अपि कार्यम् ॥ २८ ॥

अनवरतम् अहिंसायां शिवसुखलक्ष्मीनिबन्धने धर्मे ।
सर्वेष्व् अपि च सधर्मिषु परमं वात्सल्यम् आलम्ब्यम् ॥ २९ ॥

आत्मा प्रभावनीयो रत्नत्रयतेजसा सततम् एव ।
दानतपोजिनपूजाविद्यातिशयैश् च जिनधर्मः ॥ ३० ॥

सम्यग्ज्ञान : श्लोक ३१–३६

इत्याश्रितसम्यक्त्वैः सम्यग्ज्ञानं निरूप्य यत्नेन ।
आम्नाययुक्तियोगैः समुपास्यं नित्यम् आत्महितैः ॥ ३१ ॥

पृथगाराधनम् इष्टं दर्शनसहभाविनोऽपि बोधस्य ।
लक्षणभेदेन यतो नानात्वं सम्भवत्य् अनयोः ॥ ३२ ॥

सम्यग्ज्ञानं कार्यं सम्यक्त्वं कारणं वदन्ति जिनाः ।
ज्ञानाराधनम् इष्टम् सम्यक्त्वानन्तरं तस्मात् ॥ ३३ ॥

कारणकार्यविधानं समकालं जायमानयोर् अपि हि ।
दीपप्रकाशयोर् इव सम्यक्त्वज्ञानयोः सुघटम् ॥ ३४ ॥

कर्तव्योऽध्यवसायः सदनेकान्तात्मकेषु तत्त्वेषु ।
संशयविपर्ययानध्यवसायविविक्तम् आत्मरूपं तत् ॥ ३५ ॥

ग्रन्थार्थोभयपूर्णं काले विनयेन सोपधानं च ।
बहुमानेन समन्वितम् अनिह्नवं ज्ञानाराध्यम् ॥ ३६ ॥

सम्यग्चरित्र : श्लोक ३७–२२६

विगलितदर्शनमोहैः समञ्जसज्ञानविदिततत्त्वार्थैः ।
नित्यम् अपि निःप्रकम्पैः सम्यक्चारित्रम् आलम्ब्यम् ॥ ३७ ॥

न हि सम्यग्व्यपदेशं चरित्रम् अज्ञानपूर्वकं लभते ।
ज्ञानानन्तरम् उक्तं चारित्राराधनं तस्मात् ॥ ३८ ॥

चारित्रं भवति यतः समस्तसावद्ययोगपरिहरणात् ।
सकलकषायविमुक्तं विशदम् उदासीनं आत्मरूपं तत् ॥ ३९ ॥

हिंसातोऽनृतवचनात् स्तेयाद् अब्रह्मतः परिग्रहतः ।
कार्स्त्न्यैकदेशविरतेश् चारित्रं जायते द्विविधम् ॥ ४० ॥

निरतः कार्स्त्न्यनिवृत्तौ भवति यतिः समयसारभूतोऽयम् ।
या त्व् एकदेशविरतिर् निरतस् तस्याम् उपासको भवति ॥ ४१ ॥

आत्मपरिणामहिंसनहेतुत्वात् सर्वम् एव हिंसैतत् ।
अनृतवचनादि केवलम् उदाहृतं शिष्यबोधाय ॥ ४२ ॥

यत् खलु कषाययोगात् प्राणानां द्रव्यभावरूपाणाम् ।
व्यपरोपणस्य कारणं सुनिश्चिता भवति सा हिंसा ॥ ४३ ॥

अप्रादुर्भावः खलु रागादीनां भवति अहिंसेति ।
तेषाम् एवोत्पत्तिर् हिंसेति जिनागमस्य संक्षेपः ॥ ४४ ॥

युक्ताचरणस्य सतो रागाद्यावेशम् अन्तरेणापि ।
न हि भवति जातु हिंसा प्राणव्यपरोपणाद् एव ॥ ४५ ॥

व्युत्थानावस्थायां रागादीनां वशप्रवृत्तायाम् ।
म्रियन्तां जीवो मा वा धावत्य् अग्रे ध्रुवं हिंसा ॥ ४६ ॥

यस्मात् सकषायः सन् हन्त्य् आत्मा प्रथमम् आत्मनात्मानम् ।
पश्चाज् जायेत न वा हिंसा प्राण्यन्तराणां तु ॥ ४७ ॥

हिंसायाम् अविरमणं हिंसोपरिणमनम् अपि भवति हिंसा ।
तस्मात् प्रमत्तयोगे प्राणव्यपरोपणं नित्यम् ॥ ४८ ॥

सूक्ष्मापि न खलु हिंसा परवस्तुनिबन्धना भवति पुंसः ।
हिंसायतननिवृत्तिः परिणामविशुद्धये तद् अपि कार्या ॥ ४९ ॥

निश्चयम् अबुध्यमानो यो निश्चयतस् तम् एव संश्रयते ।
नाशयति करणचरणं स बहिःकरणालसो बालः ॥ ५० ॥

अविधायापि हि हिंसां हिंसाफलभाजनं भवति एकः ।
कृत्वाप्य् अपरो हिंसां हिंसाफलभाजनं न स्यात् ॥ ५१ ॥

एकस्याल्पा हिंसा ददाति काले फलम् अनल्पम् ।
अन्यस्य महाहिंसा स्वल्पफला भवति परिपाके ॥ ५२ ॥

एकस्य सैव तीव्रं दिशति फलं सैव मन्दम् अन्यस्य ।
व्रजति सहकारिणोर् अपि हिंसा वैचित्र्यम् अत्र फलकाले ॥ ५३ ॥

प्राग् एव फलति हिंसाऽक्रियमाणा फलति फलति च कृतापि ।
आरभ्य कर्तुम् अकृतापि फलति हिंसानुभावेन ॥ ५४ ॥

एकः करोति हिंसां भवन्ति फलभागिनो बहवः ।
बहवो विदधति हिंसां हिंसाफलभुग् भवत्य् एकः ॥ ५५ ॥

कस्यापि दिशति हिंसा हिंसाफलम् एकम् एव फलकाले ।
अन्यस्य सैव हिंसा दिशत्य् अहिंसाफलं विपुलम् ॥ ५६ ॥

हिंसाफलम् अपरस्य तु ददात्य् अहिंसा तु परिणामे ।
इतरस्य पुनर् हिंसा दिशत्य् अहिंसाफलं नान्यत् ॥ ५७ ॥

इति विविधभङ्गगहने सुदुस्तरे मार्गमूढदृष्टीनाम् ।
गुरवो भवन्ति शरणं प्रबुद्धनयचक्रसंचाराः ॥ ५८ ॥

अत्यन्तनिशितधारं दुरासदं जिनवरस्य नयचक्रम् ।
खण्डयति धार्यमाणं मूर्धानं झटिति दुर्विदग्धानाम् ॥ ५९ ॥

अवबुध्य हिंस्यहिंसकहिंसा हिंसाफलानि तत्त्वेन ।
नित्यम् अवगूहमानैर् निजशक्त्या त्यज्यतां हिंसा ॥ ६० ॥

मद्यं मांसं क्षौद्रं पञ्चोदुम्बरफलानि यत्नेन ।
हिंसाव्युपरतिकामैर् मोक्तव्यानि प्रथमम् एव ॥ ६१ ॥

मद्यं मोहयति मनो मोहितचित्तस् तु विस्मरति धर्मम् ।
विस्मृतधर्मो जीवो हिंसाम् अविशङ्कम् आचरति ॥ ६२ ॥

रसजानां च बहूनां जीवाणां योनिर् इष्यते मद्यम् ।
मद्यं भजतां तेषां हिंसा संजायतेऽवश्यम् ॥ ६३ ॥

अभिमानभयजुगुप्साहास्यारतिशोककामकोपाद्याः ।
हिंसायाः पर्यायाः सर्वेऽपि च शरकसन्निहिताः ॥ ६४ ॥

न विना प्राणविघातान् मांसस्योत्पत्तिर् इष्यते यस्मात् ।
मांसं भजतस् तस्मात् प्रसरत्य् अनिवारिता हिंसा ॥ ६५ ॥

यद् अपि किल भवति मांसं स्वयम् एव मृतस्य महिषवृषभादेः ।
तत्रापि भवति हिंसा तदाश्रितनिगोदनिर्मथनात् ॥ ६६ ॥

आमास्व् अपि पक्वास्व् अपि विपच्यमानासु मांसपेशीषु ।
सातत्येनोत्पादस् तज्जातीनां निगोदानाम् ॥ ६७ ॥

आमां व पक्वां व खादति यः स्पृशति वा पिशितपेशीम् ।
स निहन्ति सततनिचितं पिण्डं बहुजीवकोटीनाम् ॥ ६८ ॥

मधुशकलम् अपि प्रायो मधुकरहिंसात्मकं भवति लोके ।
भजति मधु मूढधीको यः स भवति हिंसकोऽत्यन्तम् ॥ ६९ ॥

स्वयम् एव विगलितं यो गृह्णीयाद् वा छलेन मधुगोलात् ।
तत्रापि भवति हिंसा तदाश्रयप्राणिनां घातात् ॥ ७० ॥

मधु मद्यं नवनीतं पिशितं च महाविकृतयस् ताः ।
वल्भ्यन्ते न व्रतिना तद्वर्णा जन्तवस् तत्र ॥ ७१ ॥

योनिर् उदुम्बरयुग्मं प्लक्षन्यग्रोधपिप्पलफलानि ।
त्रसजीवानां तस्मात् तेषां तद्भक्षणे हिंसा ॥ ७२ ॥

यानि तु पुनर् भवेयुः कालोच्छन्नत्रसानि शुष्काणि ।
भजतस् तान्य् अपि हिंसा विशिष्टरागादिरूपा स्यात् ॥ ७३ ॥

अष्टाव् अनिष्टदुस्तरदुरितायतनान्य् अमूनि परिवर्ज्य ।
जिनधर्मदेशनाया भवन्ति पात्राणि शुद्धधियः ॥ ७४ ॥

धर्मम् अहिंसारूपं संशृण्वन्तोऽपि ये परित्यक्तुम् ।
स्थावरहिंसाम् असहास् त्रसहिंसां तेऽपि मुञ्चन्तु ॥ ७५ ॥

कृतकारितानुमतैर् वाक्कायमनोभिर् इष्यते नवधा ।
औत्सर्गिकी निवृत्तिर् विचित्ररूपापवादिकी त्व् एषा ॥ ७६ ॥

स्तोकैकेन्द्रियघाताद् गृहीणां सम्पन्नयोग्यविषयाणाम् ।
शेषस्थावरमारणविरमणम् अपि भवति करणीयम् ॥ ७७ ॥

अमृतत्वहेतुभूतं परमम् अहिंसारसायनं लब्ध्वा ।
अवलोक्य बालिशानाम् असमञ्जसम् आकुलैर् न भवितव्यम् ॥ ७८ ॥

सूक्ष्मो भगवान् धर्मो धर्मार्थं हिंसने न दोषोऽस्ति ।
इति धर्ममुग्धहृदयैर् न जातु भूत्वा शरीरिणो हिंस्याः ॥ ७९ ॥

धर्मो हि देवताभ्यः प्रभवति ताभ्यः प्रदेयम् इह सर्वम् ।
इति दुर्विवेककलितां धिषणां न प्राप्य देहिनो हिंस्याः ॥ ८० ॥

पूज्यनिमित्तं घाते छागादीनां न कोऽपि दोषोऽस्ति ।
इति संप्रधार्य कार्यं नातिथये सत्त्वसंज्ञपनम् ॥ ८१ ॥

बहुसत्त्वघातजनिताद् अशनाद् वरम् एकसत्त्वघातोत्थम् ।
इत्य् आकलय्य कार्यं न महासत्त्वस्य हिंसनं जातु ॥ ८२ ॥

रक्षा भवति बहूनाम् एकस्यैवास्य जीवहरणेन ।
इति मत्वा कर्तव्यं न हिंसनं हिंस्रसत्त्वानाम् ॥ ८३ ॥

बहुसत्त्वघातिनोऽमी जीवन्त उपार्जयन्ति गुरु पापम् ।
इत्य् अनुकम्पां कृत्वा न हिंसनीयाः शरीरिणो हिंस्राः ॥ ८४ ॥

बहुदुःखाः संज्ञपिताः प्रयान्ति त्व् अचिरेण दुःखविच्छित्तिम् ।
इति वासनाकृपाणीम् आदाय न दुःखिनोऽपि हन्तव्याः ॥ ८५ ॥

कृच्छ्रेण सुखावाप्तिर् भवन्ति सुखिनो हताः सुखिन एव ।
इति तर्कमण्डलाग्रः सुखिनां घाताय नादेयः ॥ ८६ ॥

उपलब्धिसुगतिसाधनसमाधिसारस्य भूयसोऽभ्यासात् ।
स्वगुरोः शिष्येण शिरो न कर्तनीयं सुधर्मम् अभिलषता ॥ ८७ ॥

धनलवपिपासितानां विनेयविश्वासनाय दर्शयताम् ।
झटिति घटचटकमोक्षं श्रद्धेयं नैव खारपटिकानाम् ॥ ८८ ॥

दृष्ट्वा परं पुरस्ताद् अशनाय क्षामकुक्षिम् आयान्तम् ।
निजमांसदानरभसाद् आलभनीयो न चात्मापि ॥ ८९ ॥

को नाम विशति मोहं नयभङ्गविशारदान् उपास्य गुरून् ।
विदितजिनमतरहस्यः श्रयन्न् अहिंसां विशुद्धमतिः ॥ ९० ॥

यद् इदं प्रमादयोगाद् असदभिधानं विधीयते किमपि ।
तद् अनृतम् अपि विज्ञेयं तद्भेदाः सन्ति चत्वारः ॥ ९१ ॥

स्वक्षेत्रकालभावैः सद् अपि हि यस्मिन् निषिध्यते वस्तु ।
तत् प्रथमम् असत्यं स्यान् नास्ति यथा देवदत्तोऽत्र ॥ ९२ ॥

असद् अपि हि वस्तुरूपं यत्र परक्षेत्रकालभावैस् तैः ।
उद्भाव्यते द्वितीयं तद् अनृतम् अस्मिन् यथास्ति घटः ॥ ९३ ॥

वस्तु सद् अपि स्वरूपात् पररूपेणाभिधीयते यस्मिन् ।
अनृतम् इदं च तृतीयं विज्ञेयं गौर् इति यथाश्वः ॥ ९४ ॥

गर्हितम् अवद्यसंयुतम् अप्रियम् अपि भवति वचनरूपं यत् ।
सामान्येन त्रेधा मतम् इदम् अनृतं तुरीयं तु ॥ ९५ ॥

पैशुन्यहासगर्भं कर्कशम् असमञ्जसं प्रलपितं च ।
अन्यद् अपि यद् उत्सूत्रं तत् सर्वं गर्हितं गदितम् ॥ ९६ ॥

छेदनभेदनमारणकर्षणवाणिज्यचौर्यवचनादि ।
तत् सावद्यं यस्मात् प्राणिवधाद्याः प्रवर्तन्ते ॥ ९७ ॥

अरतिकरं भीतिकरं खेदकरं वैरशोककलहकरम् ।
यद् अपरम् अपि तापकरं परस्य तत् सर्वम् अप्रियं ज्ञेयं ॥ ९८ ॥

सर्वस्मिन्न् अप्य् अस्मिन् प्रमत्तयोगैकहेतुकथनं यत् ।
अनृतवचनेऽपि तस्मान् नियतं हिंसां समवसरति ॥ ९९ ॥

हेतौ प्रमत्तयोगे निर्दिष्टे सकलवितथवचनानाम् ।
हेयानुष्ठानादेर् अनुवदनं भवति नासत्यम् ॥ १०० ॥

भोगोपभोगसाधनमात्रं सावद्यम् अक्षमा मोक्तुम् ।
ये तेऽपि शेषम् अनृतं समस्तम् अपि नित्यम् एव मुञ्चन्तु ॥ १०१ ॥

अवितीर्णस्य ग्रहणं परिग्रहस्य प्रमत्तयोगाद् यत् ।
तत् प्रत्येयं स्तेयं सैव च हिंसा वधस्य हेतुत्वात् ॥ १०२ ॥

अर्था नाम य एते प्राणा एते बहिश्चराः पुंसाम् ।
हरति स तस्य प्राणान् यो यस्य जनो हरत्य् अर्थान् ॥ १०३ ॥

हिंसायां स्तेयस्य च नाव्याप्तिः सुघट एव सा यस्मात् ।
ग्रहणे प्रमत्तयोगो द्रव्यस्य स्वीकृतस्यान्यैः ॥ १०४ ॥

नातिव्याप्तिश् च तयोः प्रमत्तयोगैककारणविरोधात् ।
अपि कर्मानुग्रहणे नीरागाणाम् अविद्यमानत्वात् ॥ १०५ ॥

असमर्था ये कर्तुं निपानतोयादिहरणविनिवृत्तिम् ।
तैर् अपि समस्तम् परं नित्यम् अदत्तं परित्याज्यम् ॥ १०६ ॥

यद् वेदरागयोगान् मैथुनम् अभिधीयते तद् अब्रह्म ।
अवतरति तत्र हिंसा वधस्य सर्वत्र सद्भावात् ॥ १०७ ॥

हिंस्यन्ते तिलनाल्यां तप्तायसि विनिहिते तिला यद्वत् ।
बहवो जीवा योनौ हिंस्यन्ते मैथुने तद्वत् ॥ १०८ ॥

यद् अपि क्रियते किंचिन् मदनोद्रेकाद् अनङ्गरमणादि ।
तत्रापि भवति हिंसा रागाद्युत्पत्तितन्त्रत्वात् ॥ १०९ ॥

ये निजकलत्रमात्रं परिहर्तुं शक्नुवन्ति न हि मोहात् ।
निःशेषशेषयोषिन्निषेवणं तैर् अपि न कार्यम् ॥ ११० ॥

या मूर्च्छा नामेयं विज्ञातव्यः परिग्रहो ह्य् एषः ।
मोहोदयाद् उदीर्णो मूर्च्छा तु ममत्वपरिणामः ॥ १११ ॥

मूर्च्छालक्षणकरणात् सुघटा व्याप्तिः परिग्रहत्वस्य ।
सग्रन्थो मूर्च्छावान् विनापि किल शेषसङ्गेभ्यः ॥ ११२ ॥

यद्य् एवं भवति तदा परिग्रहो न खलु कोऽपि बहिरङ्गः ।
भवति नितरां यतोऽसौ धत्ते मूर्च्छानिमित्तत्वम् ॥ ११३ ॥

एवम् अतिव्याप्तिः स्यात् परिग्रहस्येति चेद् भवेन् नैवम् ।
यस्माद् अकषायाणां कर्मग्रहणे न मूर्च्छास्ति ॥ ११४ ॥

अतिसंक्षेपाद् द्विविधः स भवेद् आभ्यन्तरश् च बाह्यश् च ।
प्रथमश् चतुर्दशविधो भवति द्विविधो द्वितीयस् तु ॥ ११५ ॥

मिथ्यात्ववेदरागास् तथैव हास्यादयश् च षड्दोषाः ।
चत्वारश् च कषायाश् चतुर्दशाभ्यन्तरा ग्रन्थाः ॥ ११६ ॥

अथ निश्चित्तसचित्तौ बाह्यस्य परिग्रहस्य भेदौ द्वौ ।
नैषः कदापि सङ्गः सर्वोऽप्य् अतिवर्तते हिंसाम् ॥ ११७ ॥

उभयपरिग्रहवर्जनम् आचार्याः सूचयन्त्य् अहिंसेति ।
द्विविधपरिग्रहवहनं हिंसेति जिनप्रवचनज्ञाः ॥ ११८ ॥

हिंसापर्यायत्वात् सिद्धा हिंसान्तरङ्गसङ्गेषु ।
बहिरङ्गेषु तु नियतं प्रयातु मूर्च्छैव हिंसात्वम् ॥ ११९ ॥

एवं न विशेषः स्याद् उन्दररिपुहरिणशावकादीनाम् ।
नैवं भवति विशेषस् तेषां मूर्च्छाविशेषेण ॥ १२० ॥

हरिततृणाङ्कुरचारिणी मन्दा मृगशावके भवति मूर्च्छा ।
उन्दरनिकरोन्माथिनि मार्जारे सैव जायते तीव्रा ॥ १२१ ॥

निर्बाधं संसिद्ध्येत् कार्यविशेषो हि कारणविशेषात् ।
औधस्यखण्डयोर् इव माधुर्यप्रीतिभेद इव ॥ १२२ ॥

माधुर्यप्रीतिः किल दुग्धे मन्दैव मन्दमाधुर्ये ।
सैवोत्कटमाधुर्ये खण्डे व्यवदिश्यते तीव्रा ॥ १२३ ॥

तत्त्वार्थश्रद्धाने निर्युक्तं प्रथमम् एव मिथ्यात्वम् ।
सम्यक्दर्शनचौराः प्रथमकषायाश् च चत्वारः ॥ १२४ ॥

प्रविहाय च द्वितीयान् देशचरित्रस्य संमुखायातः ।
नियतं ते हि कषाया देशचरित्रं निरुद्धयन्ति ॥ १२५ ॥

निजशक्त्या शेषाणाम् सर्वेषाम् अन्तरङ्गसंगानाम् ।
कर्तव्यः परिहारो मार्दवशौचादिभावनया ॥ १२६ ॥

बहिरङ्गाद् अपि सङ्गाद् यस्मात् प्रभवत्य् असंयमोऽनुचितः ।
परिवर्जयेद् अशेषं तम् अचित्तं वा सचित्तं वा ॥ १२७ ॥

सोऽपि न शक्तस् त्यक्तुं धनधान्यमनुष्यवास्तुवित्तादि ।
सोऽपि तनूकरणीयः निवृत्तिरूपं यतस् तत्त्वम् ॥ १२८ ॥

रात्रौ भुञ्जानानां यस्माद् अनिवारिता भवति हिंसा ।
हिंसाविरतैस् तस्मात् त्यक्तव्या रात्रिभुक्तिर् अपि ॥ १२९ ॥

रागाद्युदयपरत्वाद् अनिवृत्तिर् नातिवर्तते हिंसाम् ।
रात्रिं दिवम् आहरतः कथं हि हिंसा न संभवति ॥ १३० ॥

यद्य् एवं तर्हि दिवा कर्तव्यो भोजनस्य परिहारः ।
भोक्तव्यं तु निशायां नेत्थं नित्यं भवति हिंसा ॥ १३१ ॥

नैवं वासरभुक्तेर् भवति हि रागोऽधिको रजनिभुक्तौ ।
अन्नकवलस्य भुक्तौ भुक्ताव् इव मांसकवलस्य ॥ १३२ ॥

अर्कालोकेन विना भुञ्जानः परिहरेत् कथं हिंसाम् ।
अपि बोधितः प्रदीपे भोज्यजुषां सूक्ष्मजन्तूनाम् ॥ १३३ ॥

किं वा बहुप्रलपितैर् इति सिद्धं यो मनोवचनकायैः ।
परिहरति रात्रिभुक्तिं सततम् अहिंसां स पालयति ॥ १३४ ॥

इत्य् अत्र त्रितयात्मनि मार्गे मोक्षस्य ये स्वहितकामाः ।
अनुपरतं प्रयतन्ते प्रयान्ति ते मुक्तिम् अचिरेण ॥ १३५ ॥

परिधय इव नगराणि व्रतानि किल पालयन्ति शीलानि ।
व्रतपालनाय तस्माच् छीलान्य् अपि पालनीयानि ॥ १३६ ॥

प्रविधाय सुप्रसिद्धैर् मर्यादां सर्वतोऽप्य् अभिज्ञानैः ।
प्राच्यादिभ्यो दिग्भ्यः कर्तव्या विरतिर् अविचलिता ॥ १३७ ॥

इति नियमितदिग्भागे प्रवर्तते यस् ततो बहिस् तस्य ।
सकलासंयमविरहाद् भवत्य् अहिंसाव्रतं पूर्णम् ॥ १३८ ॥

तत्रापि च परिमाणं ग्रामापणभवनपाटकादीनाम् ।
प्रविधाय नियतकालं करणीयं विरमणं देशात् ॥ १३९ ॥

इति विरतौ बहुदेशात् तदुत्थहिंसां विशेषपरिहारात् ।
तत्कालं विमलमतिः श्रयत्य् अहिंसां विशेषेण ॥ १४० ॥

पापर्द्धिजयपराजयसंगरपरदारगमनचौर्याद्याः ।
न कदाचनापि चिन्त्याः पापफलं केवलं यस्मात् ॥ १४१ ॥

विद्यावाणिज्यमषीकृषिसेवाशिल्पजीविनां पुंसाम् ।
पापोपदेशदानं कदाचिद् अपि नैव वक्तव्यम् ॥ १४२ ॥

भूखननवृक्षमोटनशाड्वलदलनाम्बुसेचनादीनि ।
निःकारणं न कुर्याद् दलफलकुसुमोच्चयान् अपि च ॥ १४३ ॥

असिधेनुविषहुताशनलाङ्गलकरवालकार्मुकादीनाम् ।
वितरणम् उपकरणानां हिंसायाः परिहरेद् यत्नात् ॥ १४४ ॥

रागादिवर्धनानां दुष्टकथानाम् अबोधबहुलानाम् ।
न कदाचन कुर्वीत श्रवणार्जनशिक्षणादीनि ॥ १४५ ॥

सर्वानर्थप्रथमं मथनं शौचस्य सद्म मायायाः ।
दूरात् परिहरणीयं चौर्यासत्यास्पदं द्यूतम् ॥ १४६ ॥

एवंविधम् अपरम् अपि ज्ञात्वा मुञ्चत्य् अनर्थदण्डं यः ।
तस्यानिशम् अनवद्यं विजयम् अहिंसाव्रतं लभते ॥ १४७ ॥

रागद्वेषत्यागान् निखिलद्रव्येषु साम्यम् अवलम्ब्य ।
तत्त्वोपलब्धिमूलं बहुशः सामायिकं कार्यम् ॥ १४८ ॥

रजनीदिवयोर् अन्ते तद् अवश्यं भावनीयम् अविचलितम् ।
इतरत्र पुनः समये न कृतं दोषाय तद्गुणाय कृतम् ॥ १४९ ॥

सामायिकं श्रितानां समस्तसावद्ययोगपरिहारात् ।
भवति महाव्रतम् एषाम् उदयेऽपि चरित्रमोहस्य ॥ १५० ॥

सामायिकसंस्कारं प्रतिदिनम् आरोपितं स्थिरीकर्तुम् ।
पक्षार्धयोर् द्वयोर् अपि कर्तव्योऽवश्यम् उपवासः ॥ १५१ ॥

मुक्तसमस्तारम्भः प्रोषधदिनपूर्ववासरस्यार्धे ।
उपवासं गृह्णीयान् ममत्वम् उपहाय देहादौ ॥ १५२ ॥

श्रित्वा विविक्तवसतिं समस्तसावद्ययोगम् अपनीय ।
सर्वेन्द्रियार्थविरतः कायमनोवचनगुप्तिभिस् तिष्ठेत् ॥ १५३ ॥

धर्मध्यानासक्तो वासरम् अतिवाह्य विहितसान्ध्यविधिः ।
शुचिसंस्तरे त्रियामां गमयेत् स्वाध्यायजितनिद्रः ॥ १५४ ॥

प्रातः प्रोत्थाय ततः कृत्वा तात्कालिकं क्रियाकल्पम् ।
निर्वर्त्तयेद् यथोक्तं जिनपूजां प्रासुकैर् द्रव्यैः ॥ १५५ ॥

उक्तेन ततो विधिना नीत्वा दिवसं द्वितीयरात्रिं च ।
अतिवाहयेत् प्रयत्नाद् अर्धं च तृतीयदिवसस्य ॥ १५६ ॥

इति यः षोदश यामान् गमयति परिमुक्तसकलसावद्यः ।
तस्य तदानीं नियतं पूर्णम् अहिंसाव्रतं भवति ॥ १५७ ॥

भोगोपभोगहेतोः स्थावरहिंसा भवेत् किलामीषाम् ।
भोगोपभोगविरहाद् भवति न लेशोऽपि हिंसायाः ॥ १५८ ॥

वाग्गुप्तेर् नास्त्य् अनृतं न समस्तादानविरहतः स्तेयम् ।
नाब्रह्म मैथुनमुचः सङ्गो नाङ्गेऽप्य् अमूर्च्छस्य ॥ १५९ ॥

इत्थम् अशेषितहिंसः प्रयाति स महाव्रतित्वम् उपचारात् ।
उदयति चरित्रमोहे लभेत तु न संयमस्थानम् ॥ १६० ॥

भोगोपभोगमूला विरताविरतस्य नान्यतो हिंसा ।
अधिगम्य वस्तुतत्त्वं स्वं शक्तिम् अपि ताव् अपि त्याज्यौ ॥ १६१ ॥

एकम् अपि प्रजिघांसुर् निहन्त्य् अनन्तान् यतस् ततोऽवश्यम् ।
करणीयम् अशेषाणां परिहरणम् अनन्तकायानाम् ॥ १६२ ॥

नवनीतं च त्याज्यं योनिस्थानं प्रभूतजीवानाम् ।
यद् वापि पिण्डशुद्धौ विरुद्धम् अभिधीयते किंचित् ॥ १६३ ॥

अविरुद्धापि भोगा निजशक्तिम् अवेक्ष्य धीमता त्याज्याः ।
अत्याज्येष्व् अपि सीमा कार्यैकदिवानिशोपभोग्यतया ॥ १६४ ॥

पुनर् अपि पूर्वकृतायां समीक्ष्य तात्कालिकीं निजां शक्तिम् ।
सीमन्य् अन्तर्सीमा प्रतिदिवसं भवति कर्तव्या ॥ १६५ ॥

इति यः परिमितिभोगैः संतुष्टस् त्यजति बहुतरान् भोगान् ।
बहुतरहिंसाविरहात् तस्याहिंसा विशिष्टा स्यात् ॥ १६६ ॥

विधिना दातृगुणवता द्रव्यविशेषस्य जातरूपाय ।
स्वपरानुग्रहहेतोः कर्तव्योऽवश्यम् अतिथये भागः ॥ १६७ ॥

संग्रहम् उच्चस्थानं पादोदकम् अर्चनं प्रणामं च ।
वाक्कायमनःशुद्धिर् एषणशुद्धिश् च विधिम् आहुः ॥ १६८ ॥

ऐहिकफलानपेक्षा क्षान्तिर् निष्कपटतानसूयत्वम् ।
अविषादित्वमुदित्वे निरहङ्कारित्वम् इति हि दातृगुणाः ॥ १६९ ॥

रागद्वेषासंयममददुःखभयादिकं न यत् कुरुते ।
द्रव्यं तद् एव देयं सुतपःस्वाध्यायवृद्धिकरम् ॥ १७० ॥

पात्रं त्रिभेदम् उक्तं संयोगो मोक्षकारणगुणानाम् ।
अविरतसम्यग्दृष्टिर् विरताविरतश् च सकलविरतश् च ॥ १७१ ॥

हिंसायाः पर्यायो लोभोऽत्र निरस्यते यतो दाने ।
तस्माद् अतिथिवितरणं हिंसाव्युपरमणम् एवेष्टम् ॥ १७२ ॥

गृहम् आगताय गुणिने मधुकरवृत्त्या परान्न् अपीडयते ।
वितरति यो नातिथये स कथं न हि लोभवान् भवति ॥ १७३ ॥

कृतम् आत्मार्थं मुनये ददाति भक्तम् इति भावितत्यागः ।
अरतिविषादविमुक्तः शिथिलितलोभो भवत्य् अहिंसैव ॥ १७४ ॥

इयम् एकैव समर्था धर्मस्वं मे मया समं नेतुम् ।
सततम् इति भावनीया पश्चिमसल्लेखना भक्त्या ॥ १७५ ॥

मरणान्तेऽवश्यम् अहं विधिना सल्लेखनां करिष्यामि ।
इति भावनापरिणतो नागतम् अपि पालयेद् इदं शीलम् ॥ १७६ ॥

मरणेऽवश्यं भाविनि कषायसल्लेखनातनूकरणमात्रे ।
रागादिम् अन्तरेण व्याप्रियमाणस्य नात्मघातोऽस्ति ॥ १७७ ॥

यो हि कषायाविष्टः कुम्भकजलधूमकेतुविषशस्त्रैः ।
व्यपरोपयति प्राणान् तस्य स्यात् सत्यम् आत्मवधः ॥ १७८ ॥

नीयन्तेऽत्र कषाया हिंसाया हेतवो यतस् तनुताम् ।
सल्लेखनाम् अपि ततः प्राहुर् अहिंसाप्रसिद्ध्यर्थम् ॥ १७९ ॥

इति यो व्रतरक्षार्थं सततं पालयति सकलशीलानि ।
वरयति पतिंवरेव स्वयम् एव समुत्सुका शिवपदश्रीः ॥ १८० ॥

अतिचाराः सम्यक्त्वे व्रतेषु शीलेषु पञ्च पञ्चेति ।
सप्ततिर् अमी यथोदितशुद्धिप्रतिबन्धिनो हेयाः ॥ १८१ ॥

शङ्का तथैव कांक्षा विचिकित्सा संस्तवोऽन्यदृष्टीनाम् ।
मनसा च तत्प्रशंसा सम्यग्दृष्टेर् अतिचाराः ॥ १८२ ॥

छेदनताडनबन्धा भारस्यारोपणं समधिकस्य ।
पानान्नयोश् च रोधः पञ्चाहिंसाव्रतस्येति ॥ १८३ ॥

मिथ्योपदेशदानं रहसोऽभ्याख्यानकूटलेखकृती ।
न्यासापहारवचनं साकारकमन्त्रभेदश् च ॥ १८४ ॥

प्रतिरूपव्यवहारः स्तेननियोगस् तदाहृतादानम् । राजविरोधातिक्रमहीनाधिकमानकरणे च ॥ १८५ ॥

स्मरतीव्राभिनिवेशानङ्गक्रीडान्यपरिणयनकरणम् ।
अपरिगृहीतेतरयोर् गमने चेत्वरिकयोः पञ्च ॥ १८६॥

वास्तुक्षेत्राष्टापदहिरण्यधनधान्यदासदासीनाम् ।
कुप्यस्य भेदयोर् अपि परिमाणातिक्रमाः पञ्च ॥ १८७ ॥

उर्ध्वम् अधस्तात् तिर्यग् व्यतिक्रमाः क्षेत्रवृद्धिर् आधानाम् ।
स्मृत्यन्तरस्य गदिताः पञ्चेति प्रथमशीलस्य ॥ १८८ ॥

प्रेष्यस्य संप्रयोजनम् आनयनं शब्दरूपविनिपातौ ।
क्षेपोऽपि पुद्गलानां द्वितीयशीलस्य पञ्चेति ॥ १८९ ॥

कन्दर्पः कौत्कुच्यं भोगानर्थक्यम् अपि च मौखर्यम् ।
असमीक्षिताधिकरणं तृतीयशीलस्य पञ्चेति ॥ १९० ॥

वचनमनःकायानां दुःप्रणिधानं त्व् अनादरश् चैव ।
स्मृत्यनुपस्थानयुताः पञ्चेति चतुर्थशीलस्य ॥ १९१ ॥

अनवेक्षिताप्रमार्जितम् आदानं संस्तरस् तथोत्सर्गः ।
स्मृत्यनुपस्थानम् अनादरश् च पञ्चोपवासस्य ॥ १९२ ॥

आहारो हि सचित्तः सचित्तमिश्रः सचित्तसम्बन्धः ।
दुःपक्वोऽभिषवोऽपि च पञ्चामी षष्टशीलस्य ॥ १९३ ॥

परदातृव्यपदेशः सचित्तनिक्षेपतत्पिधाने च ।
कालस्यातिक्रमणं मात्सर्यं चेत्य् अतिथिदाने ॥ १९४ ॥

जीवितमरणाशंसे सुहृदनुरागः सुखानुबन्धश् च ।
सनिदानः पञ्चैते भवन्ति सल्लेखनाकाले ॥ १९५ ॥

इत्य् एतान् अतिचारान् अपि योगी संप्रतर्क्य परिवर्ज्य ।
सम्यक्त्वव्रतशीलैर् अमलैः पुरुषार्थसिद्धिम् एत्य् अचिरात् ॥ १९६ ॥

चरित्रान्तर्भावात् तपोऽपि मोक्षाङ्गम् आगमे गदितम् ।
अनिगूहितनिजवीर्यैस् तद् अपि निषेव्यं समाहितस्वान्तैः ॥१९७॥

अनशनम् अवमौदर्यं विविक्तशय्यासनं रसत्यागः ।
कायक्लेशो वृत्तेः संख्या च निषेव्यम् इति तपो बाह्यम् ॥ १९८ ॥

विनयो वैयावृत्त्यं प्रायश्चित्तं तथैव चोत्सर्गः ।
स्वाध्यायोऽथ ध्यानं भवति निषेव्यं तपोऽन्तरङ्गम् इति ॥ १९९ ॥

जिनपुङ्गवप्रवचने मुनीश्वराणां यद् उक्तम् आचरणम् ।
सुनिरूप्य निजां पदवीं शक्तिं च निषेव्यम् एतद् अपि ॥ २०० ॥

इदम् आवश्यकषट्कं समतास्तववन्दनाप्रतिक्रमणम् ।
प्रत्याख्यानं वपुषो व्युत्सर्गश् चेति कर्तव्यम् ॥ २०१ ॥

सम्यग्दण्डो वपुषः सम्यग्दण्डस् तथा च वचनस्य ।
मनसः सम्यग्दण्डो गुप्तित्रितयं समनुगम्यम् ॥ २०२ ॥

सम्यग्गमनागमनं सम्यग्भाषा तथैषणा सम्यक् ।
सम्यग्ग्रहनिक्षेपौ व्युत्सर्गः सम्यग् इति समितिः ॥ २०३ ॥

धर्मः सेव्यः क्षान्तिः मृदुत्वम् ऋजुता च शौचम् अथ सत्यम् ।
आकिञ्चन्यं ब्रह्म त्यागश् च तपश् च संयमश् चेति ॥ २०४ ॥

अध्रुवम् अशरणम् एकत्वम् अन्यताशौचम् आस्रवो जन्म ।
लोकवृषबोधिसंवरनिर्जराः सततम् अनुप्रेक्ष्याः ॥ २०५ ॥

क्षुत् तृष्णा हिमम् उष्णं नग्नत्वं याचनारतिर् अलाभः ।
दंशो मशकादीनाम् आक्रोशो व्याधिदुःखसंयमनम् ॥ २०६॥

स्पर्शश् च तृणादीनाम् अज्ञानम् अदर्शनं तथा प्रज्ञा ।
सत्कारपुरस्कारः शय्या चर्या वधो निषद्या स्त्री ॥ २०७ ॥

द्वाविंशतिर् अप्य् एते परिषोढव्या परीषहाः सततम् ।
संक्लेशमुक्तमनसा संक्लेशनिमित्तभीतेन ॥ २०८ ॥

इति रत्नत्रयम् एतत् प्रतिसमयं विकलम् अपि गृहस्थेन ।
परिपालनीयम् अनिशं निरत्ययां मुक्तिम् अभिलषिता ॥ २०९ ॥

बद्धोद्यमेन नित्यं लब्ध्वा समयं च बोधिलाभस्य ।
पदम् अवलम्ब्य मुनीनां कर्तव्यं सपदि परिपूर्णम् ॥ २१० ॥

असमग्रं भावयतो रत्नत्रयम् अस्ति कर्मबन्धो यः ।
सविपक्षकृतोऽवश्यं मोक्षोपायो न बन्धनोपायः ॥ २११ ॥

येनांशेन सुदृष्टिस् तेनांशेनास्य बन्धनं नास्ति ।
येनांशेन तु रागस् तेनांशेनास्य बन्धनं भवति ॥ २१२ ॥

येनांशेन ज्ञानं तेनांशेनास्य बन्धनं नास्ति ।
येनांशेन तु रागस् तेनांशेनास्य बन्धनं भवति ॥ २१३॥

येनांशेन चरित्रं तेनांशेनास्य बन्धनं नास्ति ।
येनांशेन तु रागस् तेनांशेनास्य बन्धनं भवति ॥ २१४॥

योगात् प्रदेशबन्धः स्थितिबन्धो भवति यः कषायात् तु ।
दर्शनबोधचरित्रं न योगरूपं कषायरूपं च ॥ २१५॥

दर्शनम् आत्मविनिश्चितिर् आत्मपरिज्ञानम् इष्यते बोधः ।
स्थितिर् आत्मनि चरित्रं कुत एतेभ्यो भवति बन्धः ॥ २१६ ॥

सम्यक्त्वचरित्राभ्यां तीर्थकराहारकर्मणो बन्धः ।
योऽप्य् उपदिष्टः समये न नयविदां सोऽपि दोषाय ॥ २१७ ॥

सति सम्यक्त्वचरित्रे तीर्थकराहारबन्धकौ भवतः ।
योगकषायौ तस्मात् तत् पुनर् अस्मिन्न् उदासीनम् ॥ २१८ ॥

ननु कथम् एव सिद्ध्यतु देवायुःप्रभृतिसत्प्रकृतिबन्धः ।
सकलजनसुप्रसिद्धो रत्नत्रयधारिणं मुनिवराणाम् ॥ २१९ ॥

रत्नत्रयम् इह हेतुर् निर्वाणस्यैव भवति नान्यस्य ।
आस्रवति यत् तु पुण्यं शुभोपयोगोऽयम् अपराधः ॥ २२० ॥

एकस्मिन् समवायाद् अत्यन्तविरुद्धकार्ययोर् अपि हि ।
इह दहति घृतम् इति यथा व्यवहारस् तादृशोऽपि रूढिम् इतः ॥ २२१ ॥

सम्यक्त्वचरित्रबोधलक्षणो मोक्षमार्ग इत्य् एषः ।
मुख्योपचाररूपः प्रापयति परं पदं पुरुषम् ॥ २२२ ॥

नित्यम् अपि निरुपलेपः स्वरूपसमवस्थितो निरुपघातः ।
गगनम् इव परमपुरुषः परमपदे स्फुरति विशदतमः ॥ २२३॥

कृतकृत्यः परमपदे परमात्मा सकलविषयविषयात्मा ।
परमानन्दनिमग्नो ज्ञानमयो नन्दति सदैव ॥ २२४॥

एकेनाकर्षन्ती श्लथयन्ती वस्तुतत्त्वम् इतरेण ।
अन्तेन जयति जैनीनीतिर् मन्थाननेत्रम् इव गोपी ॥ २२५ ॥

वर्णैः कृतानि चित्रैः पदानि तु पदैः कृतानि वाक्यानि ।
वाक्यैः कृतं पवित्रं शास्त्रम् इदं न पुनर् अस्माभिः ॥ २२६॥

इति श्रीमदमृतचन्द्रसूरीणां कृतिः पुरुषार्थसिद्ध्युपायोऽपर नाम जिनप्रवचनरहस्यकोशः समाप्तः ।

पाठ-संस्करण व श्रेयरचनाकार और समीक्षा स्थिति देखें
रचनाकार / लेखक
आचार्य अमृतचन्द्र
प्रकाशन स्थिति
मुक्त लाइसेंस
पाठ में त्रुटि या सुधार बताएं →

आगे पढ़ें