पूजा संग्रह · Sanskrit · Devanagari

विसर्जन-पाठ (संस्कृत)

ज्ञानतोऽज्ञानतो वापि शास्त्रोक्तं न कृतं मया | तत्सर्वं पूर्णमेवास्तु त्वत्प्रसादाज्जिनेश्वर ||१|| आह्वाननं नैव जानामि नैव जानामि पूजनम् | विसर्जनं न जानामि क्षमस्व परमेश्वर ||२|| मन्त्रहीनं क्रियाहीनं द्रव्यहीनं तथैव च...

ज्ञानतोऽज्ञानतो वापि शास्त्रोक्तं न कृतं मया |
तत्सर्वं पूर्णमेवास्तु त्वत्प्रसादाज्जिनेश्वर ||१||
आह्वाननं नैव जानामि नैव जानामि पूजनम् |
विसर्जनं न जानामि क्षमस्व परमेश्वर ||२||
मन्त्रहीनं क्रियाहीनं द्रव्यहीनं तथैव च |
तत्सर्वं क्षम्यतां देव! रक्ष-रक्ष जिनेश्वर! ||३||
सर्वमंगल-मांगल्यं सर्वकल्याण-कारकम् |
प्रधानं सर्वधर्माणां जैनं जयतु शासनम् ||
← शांति पाठ (हिन्दी) शांति पाठ (संस्कृत) →

Related Content