पठन सामग्री

एकीभाव स्तोत्रम् — संस्कृत मुक्त संस्करण

मुक्त लाइसेंस

दिगम्बर आचार्य वादिराजकृत संस्कृत एकीभाव स्तोत्र का स्रोत-संदर्भित मुक्त पाठ।

स्तोत्र संग्रह SanskritDevanagari

मूल पाठ

अक्षर आकार ऊपर से बदलें

पाठ-सूचना
यह पाठ 1926 के काव्यमाला संस्करण की संस्कृत विकिस्रोत पर उपलब्ध डिजिटल प्रतिलिपि से लिया गया है। स्रोत पृष्ठ पर Creative Commons Attribution-ShareAlike लाइसेंस अंकित है। अध्ययन, पाठ या उद्धरण के समय मूल स्कैन और नवीनतम विकिस्रोत संस्करण से मिलान करना उचित है।

मूल पाठ
श्रीवादिराजप्रणीतं
एकीभावस्तोत्रम् ।
एकीभावं गत इव मया यः स्वयं कर्मबन्धो
घोरं दुःखं भवभवगतो दुर्निवारः करोति ।
१. बिम्बं प्रतिमा. २. वादिराजस्य देशकालौ न ज्ञायेते, किं त्वेतप्रणीतमेकीभा-
वस्तोत्रं दिगम्वरा एव पठन्ति. अस्य स्तवस्य कर्तृनामरहितैका संक्षिप्तावचरिस्त्रीणि
मूलपुस्तकानि चास्मामिर्जयपुर एव समधिगतानि.
काव्यमाला।
तस्याप्यस्य त्वयि जिनरवे भक्तिरुन्मुक्तये चे-
ज्जेतुं शक्यो भवति न तया कोऽपरस्तापहेतुः ॥१॥
ज्योतीरूपं दुरितनिवहध्वान्तविध्वंसहेतुं
त्वामेवाहुर्जिनवर चिरं तत्त्वविद्याभियुक्ताः ।
चेतोबासे भवसि च मम स्फारमुद्भासमान-
स्तस्मिन्नंहः कथमिव तमो वस्तुतो वस्तुभीष्टे ॥ २ ॥
आनन्दाश्रुस्लपितवदनं गद्गदं चाभिजल्प-
न्यश्चायेत त्वयि दृढमनाः स्तोत्रमन्त्रैर्भवन्तम् ।
तस्याभ्यस्तादपि च सुचिरं देहवल्मीकमध्या-
न्निष्कास्यन्ते विविधविषमव्याधयः काद्रवेयाः ॥ ३ ॥
प्रागेवेह त्रिदिवभवनादेष्यता भव्यपुण्या-
त्पृथ्वीचक्रं कनकमयतां देव निन्ये त्वयेदम् ।
ध्यानद्वारं मम रुचिकर स्वान्तगेहं प्रविष्ट-
स्तत्किं चित्रं जिन वपुरिदं यत्सुवर्णीकरोषि ॥ ४ ॥
लोकस्यैकस्त्वमसि भगवन्निर्निमित्तेन बन्धु-
स्त्वय्येवातौ सकलविषया शक्तिरप्रत्यनीका ।
भक्तिस्फीतां चिरमधिक्सन्मामिकां चित्रशय्यां
मय्युत्पन्नं कथमिव ततः क्लेशयूथं सहेथाः ॥ ५ ॥
जन्माटव्यां कथमपि मया देव दीर्घं भ्रमित्वा
प्राप्तैवेयं तव नयकथा स्फारपीयूषवापी ।
तस्या मध्ये हिमकरहिमव्यूहशीते नितान्तं
निर्मग्नं मां न जहति कथं दुःखदावोपतापाः ॥ ६ ॥
पादन्यासादपि च पुनतो यात्रया ते त्रिलोकीं
हेमाभासो भवति सुरभिः श्रीनिवासश्च पद्मः ।
१, पूजयेत्. 'चायृ पूजानिशामनयोः'. २. कुष्ठरोगाक्रान्तं मदीयं शरीरमिति
टीकाकार:. एकीभावस्तोत्रम् ।
सर्वाङ्गेण स्पृशति भगवंस्त्वय्यशेषं मनो मे
श्रेयः किं तत्स्वयमहरहर्यन्न मामभ्युपैति ॥ ७ ॥
पश्यन्तं त्वद्वचनममृतं भक्तिपाच्या पिबन्तं
कर्मारण्यात्पुरुषमसमानन्दधाम प्रविष्टम् ।
त्वां दुर्वारस्मरमदहरं त्वत्प्रसादैकभूमिं
क्रूराकाराः कथमिव रुजाकण्टका निर्लुठन्ति ॥ ८ ॥
पाषाणामा तदितरसमः केवलं रत्नमूर्ति-
मानस्तम्भो भवति च परस्तादृशो रत्नवर्गः ।
दृष्टिप्राप्तो हरति स कथं मानरोगं नराणां
प्रत्यासत्तिर्यदि न भवतस्तस्य तच्छक्तिहेतुः ॥ ९ ॥
हृद्यः प्राप्तो मरुदपि भवन्मूर्तिशैलोपवाही
सद्यः पुंसां निरवधि रुजाधूलिबन्धं धुनोति ।
ध्यानाहूतो हृदयकमलं यस्य तु त्वं प्रविष्ट-
स्तस्याशक्यः क इह भुवने देव लोकोपकारः ॥ १० ॥
जानासि त्वं मम भवभवे यच्च यादृक्च दुःखं
जातं यस्य स्मरणमपि मे शस्त्रवन्निष्पिनष्टि ।
त्वं सर्वेशः सकृप इति च त्वामुपेतोऽस्मि भक्त्या
यत्कर्तव्यं तदिह विषये देव एव प्रमाणम् ॥ ११ ॥
मापद्दैवं तव नुतिपदैर्जीवकेनोपदिष्टैः
पापाचारी मरणसमये सारमेयोऽपि सौख्यम् ।
कः संदेहो यदुपलभते वासवश्रीप्रभुत्वं
जल्पञ्जाप्यैर्मणिभिरमलैस्त्वन्नमस्कारचक्रम् ॥ १२ ॥
शुद्धे ज्ञाने शुचिनि चरिते सत्यपि त्वय्यनीचा
भक्तिर्नो चेदनवधि सुखावञ्चिका कुञ्चिकेयम् ।
१. 'जीवक्रेन क्षत्रियवंशचूडामणिश्रीसत्यंघरमहाराजपुत्रेण' इति टीकाकारः.२. सौख्य-
मित्यस्य दैवमिति विशेषणम्, सारमेयः श्वा. काव्यमाला।
शक्योद्धाटं भवति हि कथं मुक्तिकामस्य पुंसो
मुक्तिद्वारं परिदृढमहामोहमुद्राकवाटम् ॥ १३ ॥
प्रच्छन्नः खल्वयमघमयैरन्धकारैः समन्ता-
त्पन्था मुक्तेः स्थपुटितपदः क्लेशगर्तैरगाधैः ।
तत्कस्तेन व्रजति सुखतो देव तत्वावभासी
यद्यग्रेऽग्रे न भवति भवद्भारतीरत्नदीपः ॥ १४ ॥
आत्मज्योतिर्निधिरनवधिर्द्रष्टुरानन्दहेतुः
कर्मक्षोणीपटलपिहितो योऽनवाप्यः परेषाम् ।
हस्ते कुर्वन्त्यनतिचिरतस्तं भवद्भक्तिभाजः
स्तोत्रैर्बन्धप्रकृतिपरुषोदामधात्रीखनित्रैः ॥ १५ ॥
प्रत्युत्पन्नानयहिमगिरे रायता चामृताब्धे-
र्या देव त्वत्पदकमलयोः संगता भक्तिगङ्गा ।
चेतस्तस्यां मम रुजिवशादाप्लुतं क्षालितांहः-
कल्माषं यद्भवति किमियं देव संदेहभूमिः ॥ १६ ॥
प्रादुर्भूत स्थिरपदसुख त्वामनुध्यायतो मे
त्वय्येवाहं स इति मतिरुत्पद्यते निर्विकल्पा ।
मिथ्यैवेयं तदपि तनुते तृप्तिमभ्रेषरूपां
दोषात्मानोऽप्यभिमतफलास्त्वत्प्रसादाद्भवन्ति ॥ १७ ॥
मिथ्यावादं मलमपनुदन्सप्तभङ्गीतरङ्गै-
र्वागम्भोधिर्भुवनमखिलं देव पर्येति यस्ते ।
तस्यावृत्ति सपदि विबुधाश्चेतसैवाचलेन
व्यातन्वन्तः सुचिरममृतासेवया तृप्नुवन्ति ॥ १८ ॥
१. तत्वैः सप्तसंख्यैरवभासते यः. २. 'प्रकृतिस्थित्यनुभागप्रदेशा बन्धप्रकृतयः' इति
टीका. ३. स्याद्वादनयहिमाचलात्. ४, स्यादस्ति, स्थानास्ति, स्यादस्ति नास्ति,
स्थादवफव्यम् , स्वादस्त्यवक्तव्यम् , स्थानास्त्यवतन्यम् , स्यादति च नास्ति चाव-
सव्यं न इति सत भनाः स्याद्वादनये प्रसिद्धाः. ५. घेतोपपर्वतेनावृत्ति मथनम्, एकीभावस्तोत्रम् ।
आहार्येभ्यः स्पृहयति परं यः स्वभावादहृद्यः
शस्त्रग्राही भवति सततं वैरिणा यश्च शक्यः ।
सर्वाङ्गेषु त्वमसि सुभगस्त्वं न शक्यः परेषां
तत्किं भूषावसनकुसुमैः किं च शस्त्रैरुदस्त्रैः ॥ १९ ॥
इन्द्रः सेवां तव सुकुरुतां किं तया श्लाघनं ते
तस्यैवेयं भवलयकरीं श्लाध्यतामातनोति ।
त्वं निस्तारी जननजलधेः सिद्धिकान्तापतिस्त्वं
त्वं लोकानां प्रभुरिति तब श्लाध्यते स्तोत्रमित्यम् ॥२०॥
वृत्तिर्वाचामपरसदृशी न त्वमन्येन तुल्यः
स्तुत्युद्गाराः कथमिव ततस्त्वय्यमी नः क्रमन्ते ।
मैवं भूवंस्तदपि भगवन्भक्तिपीयूषपुष्टा-
स्ते भव्यानामभिमतफलाः पारिजाता भवन्ति ॥ २१ ॥
कोपावेशो न तव न तव क्वापि देव प्रसादो
व्याप्तं चेतस्तव हि परमोपेक्षयेवानपेक्षम् ।
आज्ञावश्यं तदपि भुवनं संनिधिर्वैरहारी
क्वैवंभूतं भुवनतिलकं प्राभवं त्वत्परेषु ॥ २२ ।।
देव स्तोतुं त्रिदिवगणिकामण्डलीगीतकीर्तिं
तोतूर्ति त्वां सकलविषयज्ञानमूर्तिं जनो यः।
तस्य क्षेमं न पदमटतो जातु जोइर्ति पन्था-
स्तत्त्वग्रन्थस्मरणविषये नैष मोमूर्ति मर्त्यः ॥ २३ ॥
चित्ते कुर्वन्निरवधिसुखज्ञानहग्वीर्यरूपं
देव त्वां यः समयनियमादादरेण स्तवीति ।
श्रेयोमार्गं स खलु सुकृती तावता पूरयित्वा
कल्याणानां भवति विषयः पञ्चधा पञ्चितानाम् ॥ २४ ॥
.
१. बाह्यभूषणादिभ्यः. २. प्रभुस्वम्. ३. स्तोतुं तोतूर्ति स्वरितो भवति. ४. कुटिलो
भवति. ५. संदेहं प्राप्नोति.. विस्तृतानाम्. काव्यमाला।
भक्तिप्रह्वमहेन्द्रपूजितपद त्वत्कीर्तने न क्षमाः
सूक्ष्मज्ञानदृशोऽपि संयमभृतः के हन्त मन्दा वयम् ।
अस्माभिः स्तवनच्छलेन तु परस्त्वय्यादरस्तन्यते
स्वात्माधीनसुखैषिणां स खलु नः कल्याणकल्पद्रुमः ॥२५॥
वादिराजमनु शाब्दिकलोको वादिराजमनु तार्किकसिंहः ।
वादिराजमनु काव्यकृतस्ते वादिराजमनु भव्यसहायः ॥ २६ ॥
इति श्रीवादिराजकृतमेकीभावस्तोत्रम् ॥

पाठ-संस्करण व श्रेयरचनाकार और समीक्षा स्थिति देखें
रचनाकार / लेखक
आचार्य वादिराज
प्रकाशन स्थिति
मुक्त लाइसेंस
पाठ में त्रुटि या सुधार बताएं →

आगे पढ़ें