पठन सामग्री
विषापहार स्तोत्रम् — संस्कृत मुक्त संस्करण
भगवान ऋषभदेव की स्तुति का 40-पद्य संस्कृत मूल पाठ; 1926 काव्यमाला संस्करण के खुले डिजिटल पाठ पर आधारित।
मूल पाठ
अक्षर आकार ऊपर से बदलेंपाठ-सूचना
यह पाठ 1926 के काव्यमाला संस्करण की संस्कृत विकिस्रोत पर उपलब्ध डिजिटल प्रतिलिपि से लिया गया है। स्रोत पृष्ठ पर Creative Commons Attribution-ShareAlike लाइसेंस अंकित है। अध्ययन, पाठ या उद्धरण के समय मूल स्कैन और नवीनतम विकिस्रोत संस्करण से मिलान करना उचित है।
मूल पाठ
श्रीधनंजयप्रणीतं
विषापहारस्तोत्रम् ।
स्वात्मस्थितः सर्वगतः समस्तव्यापारवेदी विनिवृत्तसङ्गः ।
प्रवृद्धकालोऽप्यजरो वरेण्यः पायादपायात्पुरुषः पुराणः ॥ १॥
परैरचिन्त्य युगभारमेकः स्तोतुं वहन्योगिभिरप्यशक्यः ।
स्तुत्योऽद्य मेऽसौ वृषभो न भानोः किमप्रवेशे विशति प्रदीपः ॥ २ ॥
तत्याज शक्रः शकनाभिमानं नाहं त्यजामि स्तवनानुबन्धन् ।
स्वल्पेन बोधेन ततोऽधिकार्थं वातायनेनेव निरूपयामि ॥३॥
त्वं विश्वदृश्वा सकलैरदृश्यो विद्वानशेषं निखिलैरवेद्यः ।
वक्तुं कियान्कीदृश इत्यशक्यः स्तुतिस्ततोऽशक्तिकथा तवास्तु ॥ ४ ॥
व्यापीडितं बालमिवात्मदोषैरुल्लापतां लोकमवापिपस्त्वम् ।
हिताहितान्वेषणमान्द्यभाजः सर्वस्य जन्तोरसि वालवैद्यः ॥ ५ ॥
विषापहारस्तोत्रम् ।
दाता न हर्ता दिवसं विवस्वानद्यश्व इत्यच्युत दर्शिताशः ।
संव्याजमेवं गमयत्यशक्तः क्षणेन दत्सेऽभिमतं नताय ॥ ६॥
उपैति भक्त्या सुमुखः सुखानि त्वयि सभावाद्विमुखश्च दुःखम् ।
सदावदातद्युतिरेकरूपस्तयोस्त्वमादर्श इवावभासि ॥ ७ ॥
अगाधताब्धेः स यतः पयोधिर्मेरोश्च तुङ्गा प्रकृतिः स यत्र ।
द्यावापृथिव्योः पृथुता तथैव व्याप त्वदीया भुवनान्तराणि ॥ ८॥
तवानवस्था परमार्थतत्त्वं त्वया न गीतः पुनरागमश्च ।
दृष्टं विहाय त्वमदृष्टमैपीर्विरुद्धवृत्तोऽपि समञ्जसस्त्वम् ॥ ९ ॥
स्मरः सुदग्धो भवतैव तस्मिन्नुद्भूलितात्मा यदि नाम शंभुः ।
अशेत वृन्दोपहतोऽपि विष्णुः किं गृह्यते येन भवानजागः ॥ १० ॥
स नीरजाः स्यादपरोऽघवान्वा तद्दोषकीर्त्यैव न ते गुणित्वम् ।
खतोऽम्बुराशेर्महिमा न देव स्तोकापवादेन जलाशयस्य ।। ११ ॥
कर्मस्थितिं जन्तुरनेकभूमिं नयत्यमुं सा च परस्परस्य ।
त्वं नेतृभावं हि तयोर्भवाब्धौ जिनेन्द्रनौनाविकयोरिवाख्यः ॥ १२ ॥
सुखाय दुःखानि गुणाय दोषान्धर्माय पापानि समाचरन्ति ।
तैलाय बालाः सिकतासमूहं निपीडयन्ति स्फुटमैत्वदीयाः ॥ १३ ॥
विषापहारं मणिमोषधानि मन्त्रं समुद्दिश्य रसायनं च ।
भ्राभ्यन्त्यहो न त्वमिति सरन्ति पर्यायनामानि तवैव तानि ॥ १४ ॥
चित्ते न किंचित्कृतवानसि त्वं देवः कृतश्चेतसि येन सर्वम् ।
हस्ते कृतं तेन जगद्विचित्रं सुखेन जीवत्यपि चित्तवाह्यः ॥ १५ ॥
१. सूर्यो न ददाति नापहरति केवलमद्यश्व इत्याशां दर्शयनशक्तः सन्सव्याज दिवस
गमयति, केवलं कालक्षेपं करोतीत्यर्थः. अन्यत्राशा दिशः. २. यत्र स मेरुवर्तते तत्रैव
तुझा प्रकृतिनान्यत्र. ३. तत्र मतेऽनवस्था परमार्थतत्त्वं वर्तते. ४. पुनरावृत्तिः.
५. वाञ्छितवानसि. ६. पापरहितः स प्रमादिदेवसमूहः, ७. सरोवरादेः स्तोकापवादेन
खल्पमेतदिति निन्दया समुद्रस्य महत्त्वं न ख्याप्यते, स तु खभावेनैव महान्, ८. जी.
वक्रमगोरन्योन्यस्य नेतृभावं भवाब्वौ लमाख्यः कथितवानसि, प्रथा समुन्द्रे नौका
नाविक नयति नाविकच नौकां तद्वत्. ६, स्वत्तः पराञ्चुलाः २४
काव्यमाला।
त्रिकालतत्त्वं त्वमवैस्त्रिलोकीखामीति संख्यानियतेरमीषाम् ।
बोधाधिपत्यं प्रति नाभविष्यस्तेऽन्येऽपि चेव्द्याप्स्यदमूनपीदम् ॥ १६ ॥
नाकस्य पत्युः परिकर्म रम्यं नागम्यरूपस्य तवोपकार ।
तस्यैव हेतुः स्वसुखस्य भानोरुद्विम्रतश्छत्रमिवादरेण ॥ १७ ॥
क्वोपेक्षकस्त्वं व सुखोपदेशः स चेत्किमिच्छाप्रतिकूलवादः ।
क्वासौ क्व वा सर्वजगत्प्रियत्वं तन्नो यथातथ्यमवेविचं ते ॥ १८ ॥
तुङ्गात्फलं यत्तदकिंचनाच्च प्राप्यं समृद्धान्न घनेश्वरादेः ।
निरम्भसोऽप्युच्चतमादिवाद्रेर्नैकापि निर्याति धुनी पयोधेः ॥ १९ ॥
त्रैलोक्यसेवानियमाय दण्डं दधे यदिन्द्रो विनयेन तस्य ।
तत्प्रातिहार्यं भवतः कुतस्त्यं तत्कर्मयोगाद्यदि वा तवास्तु ॥२०॥
श्रिया परं पश्यति साधु निःखः श्रीमान्न कश्चित्कृपणं त्वदन्यः ।
यथा प्रकाशस्थितमन्धकारस्थायीक्षतेऽसौ न तथा तमःस्थम् ॥ २१ ॥
स्ववृद्धिनिःश्वासनिमेषभाजि प्रत्यक्षमात्मानुभवेऽपि मूढः ।
किं चाखिलज्ञेयविवर्तिबोधस्वरूपमध्यक्षमवैति लोकः ॥ २२ ॥
तस्यात्मजस्तस्य पितेति देव त्वां येऽवगायन्ति कुलं प्रकाश्य ।
तेऽद्यापि नन्वाश्मनमित्यवश्यं पाणौ कृतं हेम पुनस्त्यजन्ति ।। २३ ॥
दत्तस्त्रिलोक्यां पटहोऽभिभूताः सुरासुरास्तस्य महान्स लाभः ।
मोहस्य मोहस्त्वयि को विरोद्धुर्मूलस्य नाशो बलवद्विरोधः ॥ २४
मार्गस्त्वयैको ददृशे विमुक्तेश्चतुर्गतीनां गहनं परेण ।
सर्वं मया दृष्टमिति स्मयेन त्वं मा कदाचिद्भुजमालुलोक ॥ २५ ॥
स्वर्भानुरर्कस्य हविर्भुजोऽम्भः कल्पान्तवातोऽम्बुनिधेर्विधातः ।
संसारभोगस्य वियोगभावो विपक्षपूर्वाभ्युदयास्त्वदन्ये ॥२६॥
अजानतस्त्वां नमतः फलं यत्तजानतोऽन्यं न तु देवतेति ।
हरिन्मणि काचघिया दधानस्तं तस्य बुद्ध्या वहतो न रिक्तः ॥ २७ ॥
१. अवजानन्ति.२. पाषाणोद्भवम् ३. नरदेवतिर्यगादीनाम्. ४. काचम्
५. हरिन्मणेः विषापहारस्तोत्रम् ।
२५
प्रशस्तवाचश्चतुराः कषायैर्दग्धस्य देवव्यवहारमाहुः ।
गतस्य दीपस्य हि नन्दितत्वं दृष्टं कपालस्य च मङ्गलत्वम् ।। २८ ।।
नानार्थमेकार्थमदस्त्वदुक्तं हितं वचस्ते निशमय्य वक्तुः ।
निर्दोषतां के न विभावयन्ति ज्वरेण मुक्तः सुगमः स्वरेण ॥ २९ ॥
न क्वापि वाञ्छा ववृते च वाक्ते काले क्वचित्कोऽपि तथा नियोगः ।
न पूरयाम्यम्बुधिमित्युदंशुः स्वयं हि र्शातद्युतिरभ्युदेति ॥ ३० ॥
गुणा गभीराः परमाः प्रसन्ना बहुप्रकारा बहवस्तवेति ।
दृष्टोऽयमन्तः स्तवने न तेषां गुणो गुणानां किमतः परोऽस्ति ॥ ३१ ॥
स्तुत्या परं नाभिमतं हि भक्त्या स्मृत्या प्रणत्या च ततो भजामि ।
स्मरामि देवं प्रणमामि नित्यं केनाप्युपायेन फलं हि साध्यम् ॥ ३२ ॥
ततस्त्रिलोकीनगराधिदेवं नित्यं परं ज्योतिरनन्तशक्तिम् ।
अपुण्यपापं परपुण्यहेतुं नमाम्यहं वन्द्यमवन्दितारम् ।। ३३ ।।
अशब्दमस्पर्शमरूपगन्धं त्वां नीरसं तद्विषयावबोधम् ।
सर्वस्य मातारममेयमन्यैर्जिनेन्द्रमस्मार्यमनुस्मरामि ॥ ३४ ॥
अगाधमन्यैर्मनसायलङ्घ्यं निष्किचनं प्रार्थितमर्थवद्भिः ।
विश्वस्य पारं तमदृष्टपार पतिं जनानां शरणं व्रजामि ॥ ३५॥
त्रैलोक्यदीक्षागुरवे नमस्ते यो वर्धमानोऽपि निजोन्नतोऽभूत् ।
प्राग्गण्डशैलः पुनरद्रिकल्पः पश्चान्न मेरुः कुलपर्वतोऽभूत् ॥ ३६॥
स्वयंप्रकाशस्य दिवा निशा वा न बाध्यता यस्य न बाधकत्वम् ।
न लाघवं गौरवमेकरूपं वन्दे विभुं कालकलामतीतम् ॥ ३७॥
इति स्तुतिं देव विधाय दैन्याद्वरं न याचे त्वमुपेक्षकोऽसि ।
छायातरुं संश्रयतः स्वतः स्यात्कश्छायया याचितयात्मलाभः ॥ ३८॥
१. पूर्वापरविरोधरहितार्थम्. २. प्रवृत्ता. ३. उत्कृष्टाः. ४. स्वयमेवोन्नतः, न तु
क्रमेण वर्धमानः. वर्धमान इति च महावीरस्वामिनो नामान्तरम्. यथा मेरुः पूर्वं गण्ड-
शैलतुल्यस्तदनन्तरं पर्वतकल्यस्ततः कुलपर्वतोऽभूदिति न क्रमः, उत्पत्तिसमकालमेव
कुलपर्वतत्वं मेरोः, एवं जिनोऽपि जन्मनैवोन्नतो न तु नामानुरूपं क्रमेण वर्धमान इति
तात्पर्यम्,
३ का०स०गु० काव्यमाला।
अथास्ति दित्सा यदि वोपरोधस्त्वय्येव सक्तां दिश भक्तिबुद्धिम् ।
करिष्यते देव तथा कृपां मे को वात्मपोष्ये सुमुखो न सूरिः ॥ ३९ ॥
वितरति विहिता यथाकथंचिजिन विनताय मनीषितानि भक्तिः ।
त्वयि नुतिविषया पुनर्विशेषाद्दिशति सुखानि यशो धनं जयं च ॥४०॥
इति श्रीधनंजयकृतं विषापहारस्तोत्रम् ॥