पठन सामग्री
जिनचतुर्विंशतिका — संस्कृत मुक्त संस्करण
चौबीस जिनेन्द्रों की स्तुति में कवि भूपालकृत जिनचतुर्विंशतिका का संस्कृत पाठ।
मूल पाठ
अक्षर आकार ऊपर से बदलेंपाठ-सूचना
यह पाठ 1926 के काव्यमाला संस्करण की संस्कृत विकिस्रोत पर उपलब्ध डिजिटल प्रतिलिपि से लिया गया है। स्रोत पृष्ठ पर Creative Commons Attribution-ShareAlike लाइसेंस अंकित है। अध्ययन, पाठ या उद्धरण के समय मूल स्कैन और नवीनतम विकिस्रोत संस्करण से मिलान करना उचित है।
मूल पाठ
श्रीभूपालकविप्रणीता
जिनचतुर्विंशतिका।
श्रीलीलायतनं महीकुलगृहं कीर्तिप्रमोदास्पदं
वाग्देवीरतिकेतनं जयरमाक्रीडानिधानं महत् ।
स स्यात्सर्वमहोत्सवैकभवनं यः प्रार्थितार्थप्रदं
प्रातः पश्यति कल्पपादपदलच्छायं जिनाङ्घ्रिद्वयम् ॥ १॥
शान्तं वयुः श्रवणहारि वचश्चरित्रं
सर्वोपकारि तव देव ततः श्रुतज्ञाः ।
संसारमारवमहास्सलरेन्दसान्द्र-
च्छायामहीरुह भवन्तमुपाश्रयन्ते ॥ २ ॥
स्वामिन्नद्य विनिर्गतोऽसि जननीगर्भान्धकूपोदरा-
दद्योद्घाटितदृष्टिरस्मि फलवजन्मास्मि चाद्य स्फुटम् ।
त्वामद्राक्षमहं यदक्षयपदानन्दाय लोकत्रयी-
नेत्रेन्दीवरकाननेन्दुममृतस्यन्दिप्रभाचन्द्रिकम् ॥ ३ ॥
निःशेषत्रिदशेन्द्रशेखरशिखारत्नप्रदीपावली-
सान्द्रीभूतमृगेन्द्रविष्टरतटीमाणिक्यदीपावलिः ।
क्वेयं श्रीः क्व च निःस्पृहत्त्वमिदमित्यूहातिगस्त्वादृशः
सर्वज्ञानदृशश्चरित्रमहिमा लोकेश लोकोत्तरः ॥ ४॥
१. द्वित्राणि मूलपुस्तकान्येका च टीकास्य स्तोत्रस्यास्माभिः समासादिता, तत्र
टीकायां तत्कर्तुर्नाम नास्ति, २. पण्डिता. ३. रुन्दा विस्तीर्णा. ४, सिंहासनस्य.
जिनचतुर्विंशतिका।
राज्यं शासनकारिनाकपति यत्त्यक्तं तृणावज्ञया
हेलानिर्दलितत्रिलोकमहिमा यन्मोहमल्लो जितः ।
लोकालोकमपि (१) स्वबोधमुकुरस्यान्तः कृतं यत्त्वया
सैषाश्चर्यपरम्परा जिनवर क्वान्यत्र संभाव्यते ॥ ५ ॥
दानं ज्ञानधनाय दत्तमसकृत्पात्राय सद्वृत्तये
चीर्णान्युग्रतपांसि तेन सुचिरं पूजाश्च बह्व्यः कृताः ।
शीलानां निचयः सहामलगुणैः सर्वः समासादितो
दृष्टस्त्वं जिन येन दृष्टिसुभगः श्रद्धापरेण क्षणम् ॥ ६ ॥
प्रज्ञापारमितः स एव भगवान्पारं स एव श्रुत-
स्कन्धाब्धेर्गुणरत्नभूषण इति श्लाघ्यः स एव ध्रुवम् ।
नीयन्ते जिन येन कर्णहृदयालंकारतां त्वद्गुणाः
संसाराहिविषापहारमणयस्त्रैलोक्यचूडामणे ॥ ७ ॥
जयति दिविजवृन्दान्दोलितैरिन्दुरोचि-
र्निचयरुचिभिरुच्चैश्चामरैर्वीज्यमानः ।
जिनपतिरनुरज्यन्मुक्तिसाम्राज्यलक्ष्मी-
युवतिनवकटाक्षक्षेपलीलां दधानैः ॥ ८ ॥
देवः श्वेतातपत्रत्रयचमरिरुहाशोकभाश्चक्रभाषा-
पुष्पौधासारसिंहासनसुरपटहैरष्टभिः प्रातिहार्यैः । (१)
साश्चर्यैर्भ्राजमानः सुरमनुजसभाम्भोजिनीभानुमाली
पायान्नः पादपीठीकृतसकलजगत्पालमौलिर्जिनेन्द्रः ॥९॥
नृत्यत्स्वर्दन्तिदन्ताम्बुरुहवननटन्नाकनारीनिकायः
सद्यस्त्रैलोक्ययात्रोत्सवकरनिनदातोद्यमाद्यन्निलिम्पः ।
हस्ताम्भोजावलीलाविनिहितसुमनोदामरम्यामरस्त्री-
काम्यः कल्याणपूजाविधिषु विजयते देव देवागमस्ते ॥१०॥
१. आज्ञाविधेयः शक्रो यस्मिन्, २. चमरिरहं चामरम्, भाश्चकं भामण्डलम् ।
भाषा दिव्यध्वनिः, 'अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यध्वनिश्चामरमासनं च । भामण्डलं
दुन्दुमिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ इति शान्तिपाठे पद्यम्. २८
काव्यमाला।
चक्षुष्मानहमेव देव भुवने नेत्रामृतस्यन्दिनं
त्वद्वक्रेन्दुमतिप्रसादसुभगैस्तेजोभिरुद्भासितम् ।
येनालोकयता मयानतिचिराच्चक्षुः कृतार्थीकृतं
द्रष्टव्यावधिवीक्षणव्यतिकरव्याजृम्भमाणोत्सवम् ।। ११ ।।
कन्तोः सकान्तमपि मल्लमवैति कश्चि-
न्मुग्धो मुकुन्दमरविन्दजमिन्दुमौलिम् ।
मोधिकृतत्रिदशयोषिदपाङ्गपात-
स्तस्य त्वमेव विजयी जिनराज मल्लः ॥ १२ ॥
किसलयितमनल्पं स्वद्विलोकाभिलाषा-
त्कुसुमितमतिसान्द्रं त्वत्समीपप्रयाणात् ।
मम फलितममन्दं त्वन्मुखेन्दोरिदानीं
नयनपथमवाप्ताद्देव पुण्यद्रुमेण ॥ १३ ॥
त्रिभुवनवनपुष्प्यत्पुष्पकोदण्डदर्प-
प्रसरदवनवाम्भोमुक्तिसूक्तिप्रसूतिः ।
स जयति जिनराजबातजीमूतसङ्घः
शतमस्वशिस्विनृत्यारम्भनिर्बन्धबन्धुः ॥ १४ ॥
भूपालखर्गपालप्रमुखनरसुरश्रेणिनेत्रालिमाला-
लीलाचैत्यस्य चैत्यालयमखिलजगत्कौमुदीन्दोर्जिनस्य ।
उत्तंसीभूतसेवाञ्जलिपुटनलिनीकुझलास्त्रिः परीत्य
श्रीपादच्छाययास्थितभवदवथुः संश्रितोऽस्मीव मुक्तिम् ॥१५॥
देव त्वदङ्घ्रिनखमण्डलदर्पणेऽस्मि-
न्नर्ध्ये निसर्गरुचिरे चिरदृष्टवक्रः ।
श्रीकीर्तिकान्तिधृतिसंगमकारणानि
भव्यो न कानि लभते शुभमङ्गलानि ॥ १६ ॥
१. कामस्य. २. माद्यन्, ३. जिनानां गणधरदेवानां राजानस्तेषां व्रातः समूह एव
मेघसंघ इति दीका. ४. वृक्षविशेषस्य. ५. अपस्थितो दूरीभूतः. जिनचतुर्विंशतिका।
no
जयति सुरनरेन्द्रश्रीसुधानिर्झरिण्याः
कुलधरणिधरोऽयं जैनचैत्याभिरामः ।
प्रविपुलफलधर्मानोकहाग्रप्रवाल-
प्रसरशिखरशुम्भत्केतनः श्रीनिकेतः ॥ १७ ॥
विनमदगरकान्ताकुन्तलाक्रान्तकान्ति-
स्फुरितनखमयूखद्योतिताशान्तरालः ।
दिविजमनुजराजबातपूज्यक्रमाब्जो
जयति विजितकर्मारातिजालो जिनेन्द्रः ॥१८॥
मुप्तोत्थितेन सुमुखेन सुमङ्गलाय
द्रष्टव्यमस्ति यदि मङ्गलमेव वस्तु ।
अन्येन किं तदिह नाथ तवैव वक्रं
त्रैलोक्यमङ्गलनिकेतनमीक्षणीयम् ॥ १९ ॥
त्वं धर्मोदयतापसाश्रमशकस्त्वं काव्यबन्धक्रम-
क्रीडानन्दनकोकिलस्त्वमुचितः श्रीमल्लिकाषट्पदः ।
त्वं पुन्नागकथारविन्दसरसीहंसस्त्वमुत्तंसकैः
कैर्भूपाल न धार्यसे गुणमणिस्रङ्मालिभिर्मौलिभिः ॥ २० ॥
शिवसुखमजरश्रीसंगमं चाभिलप्य
स्वमभि नियमयन्ति क्लेशपाशेन केचित् ।
वयमिह तु वचस्ते भूपतेर्भावयन्त-
स्तदुभयमपि शश्वल्लीलया निर्विशामः ॥ २१॥
देवेन्द्रास्तव मज्जनानि विदधुर्दैवाङ्गना मङ्गला-
न्यापेठुः शरदिन्दुनिर्मलयशो गन्धर्वदेवा जगुः ।
शेषाश्चापि यथानियोगमखिलाः सेवां सुराश्चक्रिरे
तत्किं देव वयं विदध्म इति नश्चित्तं तु दोलायते ॥ २२ ॥
देव त्वज्जननाभिषेकसमये रोमाञ्चसत्कञ्चुकै-
र्देवेन्द्रर्यदनर्ति नर्तनविधौ लब्धप्रभावैः स्फुटम् ।
१. हे जगत्पालक. 30
काव्यमाला।
किंचान्यत्सुरसुन्दरीकुचतटप्रान्तावनद्धोत्तम-
प्रेङ्खद्वल्लकिनादझंकृतमहो तत्केन संवर्ण्यते ॥ २३ ॥
देव त्वत्प्रतिबिम्बमम्बुजदलोरेक्षणं पश्यतां
यत्रासाकमहो महोत्सबरसो दृष्टेरियान्वर्तते ।
साक्षात्तत्र भवन्तमीक्षितवतां कल्याणकाले तदा
देवानामनिमेषलोचनतया वृत्तः स किं वर्ण्यते ॥ २४ ॥
दृष्टं धाम रसायनस्य महतां दृष्टं निधीनां पदं
दृष्टं सिद्धरसस्य सम सदनं दृष्टं च चिन्तामणेः ।
किं दृष्टैरथवानुषङ्गिकफलैरे भिर्मयाद्य ध्रुवं
दृष्टं मुक्तिविवाहमङ्गलगृहं दृष्टे जिनश्रीगृहे ॥ २५ ॥
दृष्टस्त्वं जिनराजचन्द्र विकसद्भूपेन्द्रनेत्रोत्पले
स्नातं त्वन्नुतिचन्द्रिकाम्भसि भवद्विद्वञ्चकोरोत्सवे ।
नीतश्चाद्य निदाघजः क्लमभरः शान्तिं मया गम्यते
देव त्वद्गतचेतसैव भवतो भूयात्पुनर्दर्शनम् ॥ २६ ॥
इति श्रीभूषालकविप्रणीता जिनचतुर्थिशतिका ॥
समाप्तेयं जिनपञ्चस्तवी।