पठन सामग्री
ऋषभपञ्चाशिका — प्राकृत-संस्कृत मुक्त संस्करण
भगवान ऋषभदेव की स्तुति में 50 पद्यों की प्राकृत रचना और साथ उपलब्ध संस्कृत छाया का मुक्त पाठ।
मूल पाठ
अक्षर आकार ऊपर से बदलेंपाठ-सूचना
यह पाठ 1926 के काव्यमाला संस्करण की संस्कृत विकिस्रोत पर उपलब्ध डिजिटल प्रतिलिपि से लिया गया है। स्रोत पृष्ठ पर Creative Commons Attribution-ShareAlike लाइसेंस अंकित है। अध्ययन, पाठ या उद्धरण के समय मूल स्कैन और नवीनतम विकिस्रोत संस्करण से मिलान करना उचित है।
मूल पाठ
महाकविश्रीधनपालप्रणीता
ऋषभपञ्चाषिका।
जय जन्तुकप्पपायव चन्दायव रामपळ्यवणस्स |
सयलमुणिगामगामणि तिलोअचूडामणि नमो ते ॥ १॥
[जय जन्तुकल्पपादप चन्द्रातप रागपजवनय ।
सकलगुनिग्रामग्रामणी स्त्रिलोक-चूडामणे नमसे ॥]
जय रोसजलणजलहर कुलहर वरनाणदसणसिरीणम् ।।
मोहतिमिरोहदिणयर नयर गुणगणाण उपराणम् ॥ २ ॥
रोपज्वलनजलधर कुलगृह वरदानदर्शनानियोः ।
मोहतिमिरौधदिनकर नगर गुणगणानां पौरागाम् ॥]
दिवो कहँवि विहडिए गण्ठिम्मि कवाडसंपुडघणम्मि ।
मोहन्धयारचारयगएण चिण दिणयस्व तुमम् ॥ ३ ॥
दृष्टः कथमपि विघटिते अन्थों कपाटसंपुरथने ।
मोहान्धकारचारलगतेन जिन दिनकर इव त्वम् ॥
भविअकमलाण जिणरवि तुह दंसणपहरिसूससन्ताणम् ।
दडबद्धा इव विहन्ति मोहतमममरचन्दाई ॥४॥
[भव्यकमलानां जिनरवे त्वदर्शनप्रहाच्छुसताम् ।
दृद्धबद्धा इव विघटन्ते मोहतमोभ्रमरवृन्दामि ॥]
लहत्तणाभिमाणो सबो सबसुरविमाणस्स।
ए नाह नाहिकुलगरधरावठारम्मुहे नहो ॥ ५॥
[प्रधानत्वाभिमानः सर्वः सर्वार्थसुरविमानस ।
त्वयि नाथ नाभिकुल । 'गृहावतारोन्मुखे नष्टः ॥]
एह चिन्तादुल्लहमुक्खसुक्खफलए अउबकप्पलुमे ।
अवइन्ने कप्पतरू जयगुरु हित्था इव पउत्था ॥ ६ ॥
१. अस्सा ऋषमपञ्चाशिकाया: सटीक पुस्तकद्वयमस्माभिरधिगतम्, तत्र प्रथम
जीर्णतरं पत्रद्वयात्मकं संवेगिसाधुवरश्रीशान्तिविजयमुनिभिर्वतम, द्वितीयं भगवानदास.
श्रेटिना सुरतनगरास्वहितं नवीनं नातिशुद्धं च. २. कारागारगोन
ऋषभपश्चाशिका ।
१२५
[स्वयि चिन्तादुर्लभमोक्षसुखफलदेऽपूर्वकल्पद्रुमे ।
अवतीर्णे कल्पतरवो जगहुरो हृीस्था इत्र प्रोषिताः ॥]
अरएणं तइएणं इमाइ ओसप्पिणीइ तुइ जन्मे ।
कुरिअं कणगमएणं व कालचक्किपासम्मि ॥ ७ ॥
[अरकेण तृतीयेणासामवसर्पिण्यां तब जन्मनि ।
स्फुरितं कनकमयेनेव कालचक्रैकपाचे ॥]
जम्मि तुमं अहिसित्तो जत्थ य सिवसुक्खसंपयं पत्तो।
ते अट्ठावयसेला सीमामेला गिरिकुलस्स ॥ ८॥
[यत्र त्वमभिषिक्तो यत्र च शिवमुखसंपदं प्राप्तः ।
ताक्टापदशैलौ शीर्षापीडौ गिरिकुलस्य ॥]
धन्ना सविमयं जेहिं झत्ति कयरज्जमनणो हरिणा ।
चिरधरिअनलिणपत्ताभिसेअसलिलेहि दिवोसि ॥ ९ ॥
धन्याः सविस्मयं यैर्सगिति कृतराज्यमजनो हरिणा ।
चिरधृतनलिनीपत्राभिषेकसलिलैदृष्टोऽसि ॥]
दाविअविज्जासिप्पो बजरिआसेसलोअववहारो।
जाओसि जाण सामिअ पयाउ ताओ कसत्थागो ॥१०॥
दर्शितविद्याशिल्पो व्याकृताशेषलोकव्यवहारः ।
जातोऽसि यासां स्वामी प्रजास्ताः कृतार्थाः ॥]
बन्धुविहत्तवसुमई बच्छरमच्छिन्नदिन्नघणनिवहो ।
जह तं तह को अन्नो निअमधुरं धीर पडिबन्नो ॥ ११॥
बन्धुविभक्तवसुमतीको वत्सरमच्छिन्नदत्तधननिवहः ।
यथा त्वं तथा कोऽन्यो नियमधुरा धीर प्रतिपन्नः ॥]
सोहसि पसाहिअंसो कजलकसिणाहिँ जयगुरु जडाहिं ।
उवगूढविसजिअरायलच्छिवाहच्छडाहिं वा ॥ १२ ॥
शोमसे प्रसाधितांसः कजलकृष्णाभिर्जगद्गुरो जटामिः ।
उपगूढविसर्जितराजलक्ष्मीबाष्पच्छटामिरिव ॥] १२६
काव्यमाला।
उसामिआ अणज्जा देसेसु तुए पवन्नमोणेण ।
अभणन्तच्चिअ कर्ज परस्स साहन्ति सप्पुरिसा ॥ १३ ॥
[उपशमिता अनार्या देशेषु तया प्रपन्नमानेन ।
अभणन्त एव कार्ये परस्य साधयन्ति सत्पुरुषाः ॥
मुणिणो वि तुहलीणा नमिविनमी खेअराहिवा जाया ।
गुरुआण चलणसेवा न निष्फला होइ कझ्यावि ।। १४ ॥
[सनेरपि तबालीनी नामिविगमी पेचरानिपी जाती।
गुरूणां चरणसेवा न निष्फला भवति कदाचनापि ॥]
भदं से सेअंसस्स जेण तवसोसिओ निराहारो।
परिसन्ते निव्वइओ मेहेण व वणदुमो तं सि ॥ १५ ॥
भद्रं तस्य श्यसो येग तप:शोपितो निराहारः।
वर्षान्त नि पितो मेघेनेव बनगुगस्त्वमसि ॥]
उप्पन्न विमलनाणे तुमम्मि भुवणस्स विअलिओ मोहो ।
सेलुग्गयसूरे वासरम्मि गयणस्स व तमोहो ॥ १६ ॥
[उत्पन्नबिमलज्ञाने त्वयि भुवनस्य विगलितो मोहः ।
सकलोद्वतसूर्य वासरे गगनसेव तमोघः ॥]
पूआवसरे सरिसो दिट्ठो चक्कस्स तं पि भरहेण ।
विसमा हु विसयतिला गुरुआण वि कुणइ मइमोहम् ॥ १७ ॥
[पूजावसरे सदृशः सदृष्टश्चक्रस त्वमपि भरतेन ।
विषमा खल्लु विषयतृष्णा गुरूणामपि करोति मतिमोहम् ॥]
पढमसमोसरणनुहे तुह केवलसुरवहूकउज्जोआ ।
जाया अम्गेइ दिसा सेवासयमागयसिहि व्व ॥ १८ ॥
[प्रथमसमवसरणमुखे तब केवलसुरवधूकृतोहयोता ।
जाता आग्नेयी दिशा सेवावयमागतशिखीव ॥]
गहिअक्यमङ्गमलिणो नूणं दूरोणएहि मुहराओ ।
तइओ पढमुल्लअतावसेहिँ तुह दंसणे पढमे ॥ १९ ॥ ऋषभपञ्चाशिका ।
गृहीतवतमङ्गमलिनो नूनं दूरावनतैर्मुखरागः ।
स्थगितः प्रथमोत्पन्नतापसैस्तव दर्शने प्रथमे ॥]
तेहि परिवेटिएण य वूढा तुमए खणं कुलवइस्स ।
सोहा विअडसत्थलघोलन्तजडाकलावेण ॥२०॥
तैः परिवेष्टितेन च व्यूढा लया क्षणं कुलपतेः ।
शोभा विकटांसस्थलप्रेसजटाकलापेन ॥]
तुह रूवं पेच्छन्ता न हुन्ति जे नाह हरिसपडिहत्था ।
समणावि गयमणचिअ ते केवलियो जइ न हुन्ति ॥ २१॥
तब रूपं पश्यन्तो न भवन्ति ये नाथ हर्षपरिपूर्गाः ।
समनस्का अपि गतमनस्का इस ते केवलि नो यदि न भवन्ति ॥]
पचानि असामन्नं समुन्नई जेहिं देवया अन्ने ।
ते दिन्ति तुम गुणसंकहासु हासं गुणा मज्झ ॥ २२ ॥
[प्राप्लान्यसामान्या समुन्नतिं यैर्दैवतान्य न्यानि ।
ते ददते तव गुणसंकथासु हासं गुणा मह्यम् ॥]
दोसरहिअस्स तुह जिण निन्दावसरम्मि भन्गपसराए ।
वायाइ वयणकुसला वि बालिसाहुन्ति मच्छरिणो ।॥ २३ ॥
दोषरहितस तव जिन निन्दावसरे भमप्रसरया ।
वाचा वचनकुशला अपि वालिशायन्ते मत्सरिणः ।।]
अणुरायपल्लविल्ले रइवस्लिफुरन्तहासकुलुमम्मि ।
सवताविओ वि न मणो सिङ्गारवणे तुह लीणो ॥ २४ ॥
[अनुरागपल्लववति रतिवल्लीस्फुरद्धासकुसुमे ।
तपरतापितमपि न मनः शृङ्गारवने तव लीनम् ॥]
आणा जस्स विलइआ सीसे सेसव्व हरिहरेहिं पि ।
सो वि तुह झाणजलणे मयणो मयणं विज विलीणो ॥ २५॥
[आज्ञा यस विलम्बिता शीर्षे शेषेव हरिहराभ्यामपि ।
सोऽपि तव च्यानज्वलने मदनो मदन इव विलीनः ।।] १२८
काव्यमाला।
पइँ नवरि निरभिमाणा जाया जयदप्पभजणुत्ताणा ।
वम्महनरिन्दजोहा दिद्विच्छोहा मयच्छीणम् ॥ २६ ॥
त्ययि केवलं निरभिमाना जगद्दर्पभजनोत्तानाः ।
मन्मथनरेन्द्रयोधा दृष्टिक्षोभा मृगाक्षीणाम् ॥]
विसमा रागहेसा निन्ता तुरयच्च उप्पहेण मणम् ।
टायन्ति धम्मसारिहि दिढे तुह पक्यणे नवरम् ॥ २७ ॥
[विषमौ रागद्वेषौ नयन्तौ तुरगावियोत्पशेन मनः ।
तिष्ठतो धर्मसारथे दृष्दे तब प्रवचने निश्चितम् ॥]
पञ्चलकसायचोरे सइसंनिहिआसि चक्रयगुरेहा ।
हुन्ति तुह चिअ चलणा सरणं भीआण भवरन्ने ॥ २८ ॥
प्रत्यलकपायचोरे सदासंनिहिताशि चवनरेखौ ।
भवतस्तवैव चरणौ शरणं भीतानां शबारण्ये ॥]
तुह समयमरमट्टा भमन्ति सयलासु रुक्खजाईसु ।
सारणिजलं व जीवा ठाणहाणेसु वज्झन्तो ॥ २९ ॥
तब समयसरोभ्रष्टा नगन्ति सकलासु रू(घ)क्षजातिपु ।
सारणिजलमिव जीवा स्थानस्थानेषु बध्यमानाः ॥
सलिलिव्व पवयणे तुह गहिथे उद अहो विमुक्कम्मि ।
बच्चन्ति नाह कूवारहट्टयडिसंनिहा जीवा ।। ३० ।।
सलिल इव प्रवचने तब गृहीते ऊर्ध्वमधो विद्युक्ते ।
ब्रजन्ति नाथ कूपारघघटीसंनिभा जीधाः ।।
लीलाइ निन्ति सुक्खं अन्ने जह तिथिआ तहा न तुमम् ।
तह वि तुह मग्गलग्गा मग्गन्ति बुहा सिक्सुहाई ॥ ३१ ॥
[लीलया नयन्ति सुखमन्ये यथा तीथिका तथा न त्वम् ।
तथापि तब मार्गलमा मृगयन्ते बुधाः शिवसुखानि ]
सारिव्व बन्धवहभरणभाइणो जिण ग हुन्ति पडू दिढे ।
अक्खहिंवि हीरन्ता जीवा संसारफलयम्मि ॥ ३२ ॥ ऋषभपञ्चाशिका।
१२९
शास्य इव बन्धवधमरणभानो जिन न भवन्ति त्वयि दृष्टे ।
अक्षैरपि ह्रियमाणा जीवाः संसारफलके ]
अवहीरिआ तए पहु निन्ति निओगिकसङ्खलावद्धा ।
कालमणन्तं सत्ता समं कयाहारनीहारा ।। ३३ ॥
[अवधीरितास्त्वया प्रभो नयन्ति निगोद(योग)कशृङ्खलाबद्धाः ।
कालमनन्तं स त्वाः समं कृताहारनीहाराः ]
जेहि तविआण तवनिहि जायइ परमा तुमम्मि पडिवत्ती ।
दुक्खाइँ ताइँ मन्ने न हुन्ति कम्मं अहम्मस्स ।। ३४ ॥
[यैस्तापितानां तपोनिधे जायते परमा त्वयि प्रतिपत्तिः ।
दुःखानि तानि मन्ये न भवन्ति कर्माधर्मस्य ॥]
होही मोहच्छेडं तुह सेवाए धुवत्ति नन्दामि ।
जं पुण न बन्दिअव्वो तत्थ तुमं तेण झिज्जामि ॥ ३५ ॥
[भविष्यति मोहच्छेदस्तब सेवया ध्रुव इति नन्दामि ।
यत्युनर्न वन्दितव्यस्तत्र त्वं तेन क्षीये ॥]
जा तुह सेवाविमुहस्स हन्तु मा ताउ मह समिद्धीओ!
अहियारसंपया इव पेरन्तविडम्बणफलाओ ॥ ३६॥
[यास्तव सेवाविमुखस्य भवन्तु मा ता मम समृद्धयः।
अधिकारसंपद इव पर्यन्तविडम्बनफलाः ॥]
भित्तूण तमं दीयो देव पयत्थे जणस्स पयडे ।
तुह पुण विवरीयमिणं जइक्कदीवस्त निव्वडिअम् ॥ ३७॥
[भित्त्वा तमो दीयो देव पदार्थाजनस्य प्रकटयति ।
तव पुनर्विपरीतमिदं जगदेकदीपस्य निर्वृत्तम् ॥]
मित्थत्तविसपसुत्ता सचेयणा जिण न हुन्ति किं जीवा ।
कन्नम्मि कमइ जइ कित्तिअंपि तुह वयणमन्तस्स ॥ ३८ ॥
मिथ्यात्वविषप्रसुप्ताः सचेतना जिन न भवन्ति किं जीवाः ।
कर्णयोः कामति यदि कियदपि त्वंद्वचनमन्त्रस्य ॥] काव्यमाला।
आयपिणआ खणद्धं पि पइ थिरं ते करन्ति अणुराअम् ।
परसमया तह वि मणं तुह समयजाण न हरन्ति ।। ३९ !!
[आकर्णिताः क्षणार्धं त्वयि स्थिरं ते कुर्वन्त्यनुरागम् ।
परसमयास्तथापि मनस्तव समयज्ञानां न हरन्ति ।।
वाईहिँ परिग्गहिआ करन्ति विमुहं खणेण पविक्वम् ।
तुज्झ नया नाह महागयब्ब अन्नुन्नसंलग्गा ॥ ४० ॥
[वादि(जि)भिः परिगृहीताः कुर्वन्ति विमुख क्षणेल प्रतिपक्षम् ।
तव नया नाथ महागजा इवान्योन्यसंलमाः ।।
पावन्ति जसं असमञ्जसा वि वयणेहि जेहि परसमया ।
तुह समयमहोअहिणो ते मन्दा बिन्दुनिस्सन्दा ॥ ४१ ।।
[प्रानुवन्ति यशोऽसगअसा अपि वनयः परख गयाः ।
तव समयमहोदधेस्तानि मन्दा बिन्दुनिस्सन्दाः ॥
पइ मुक्के पोअम्मिव जीवेहि भवन्नवम्मि पत्ताओ।
अणुवेलमावयामुहपडिएहि बिडम्बणा विविहा ॥ ४२ ॥
[स्वयि मुक्ते पोत इव जीवैभवार्णवे प्राप्ताः ।
अनुवेलमापदा(गा)मुखपतितैर्थिडम्बना विविधाः ॥
बुत्थं अपत्थिआगयमत्थभवन्तो मुहत्तवसिएण ।
छावट्ठीअयराई निरन्तरं अप्पइटाणे ॥ १३ ॥
[उषितमप्रार्थितागतमत्स्यभवान्तर्मुहूर्तमुक्तिन ।
पट्पष्टिसागरोपमानि (1) निरन्तरमप्रतिष्ठाने ।
सीउहवासधारानिवायदुक्खं सुतिक्खमणुभूअम् ।
तिरिअत्तणम्मि नाणावरणसमुच्छाइएणावि ।। ४४ ॥
[शीतोष्णवर्षधारानिपातदुःखं सुतीक्ष्णमनुभूतम् ।
तिर्यक्त्वेऽपि ज्ञानावरणसमवच्छादितेनापि ॥
अन्तोनिक्खन्तेहिं पत्तेहिं पिअकलत्तपुत्तेहिं ।
मुन्ना मणुस्सभवणाडएम निब्माइमा अका ॥ ४५ ॥ ऋषभपश्चाशिका ।
[अन्ते निष्क्रान्तः प्राप्त (पात्रे) प्रियकलवपुत्रैः ।
शुन्या मनुष्यभवनाटकेषु निमालिता अङ्काः ॥]
दिवा रिउरिद्धीओ आगाउ कया महट्टिअसुराणम् ।
सहियावहीणदेवत्तणेसु दोगचसंतावा ॥ ४६ ॥
[दृष्टा रिपुऋद्धय आज्ञा कृता महर्दिकसुराणाम् ।
सोढाववहीनदेवत्वेषु दौर्गत्यसंतापौ ॥]
सिञ्चन्तेण भववण पल्लट्टा पल्लिआ रहव्व ।
घडिसंठाणोणिसप्पिणिओसप्पिणिपरिगया बहुसो ॥ ४७ ।।
[सिञ्चता भववनं परिवर्ताः प्रेरिता अरघट्ट इव ।
घटीसंस्थानावसपिण्युत्सर्पिणीपरिगता बहुशः ।।
भमिओ कालमणन्तं भवम्मि भीओ न नाह दुक्खाणम् ।
दिढे तुमम्मि संपह जायं च मयं पलायं च ॥ ४८॥
भ्रान्तः कालमनन्तं भवे भीतो न नाथ दुःखानाम् ।
दृष्टे त्वयि संप्रति जातं च भयं पलायितं च ॥
जइ वि कयत्थो जगगुरु मज्झत्यो जइवि तहवि पत्थेमि,
दाविजसु अप्पाणं पुणो वि कइयावि अन्हाणम् ॥ १९ ॥
यद्यपि कृतार्थों जगहुरो मध्यस्थो यद्यपि तथापि प्रार्थये ।
दर्शयेरात्मानं पुनरपि कदाचिद्प्यस्माकम् ॥
इअ झाणग्गिफलीविअकम्मिन्धणबालबुद्धिणा वि मए ।
भतीइ थुओ भवभयसमुद्दयोहित्थबोहिफलो ॥ ५० ॥
[इति ध्यानाभिप्रदीपितकर्मेन्धनबालबुद्धिनापि मया ।
भक्त्या स्तुतो भवभयसमुद्रयानपानबोधिफलः ॥]
इति महाकविश्रीधनपालविरचिता ऋषभपञ्चाशिका ।।