देवदर्शन स्तोत्रम्
दर्शनं देवदेवस्य, दर्शनं पापनाशनम् | दर्शनं स्वर्गसोपानं, दर्शनं मोक्षसाधनम् ||१|| दर्शनेन जिनेन्द्राणां, साधूनां वंदनेन च | न चिरं तिष्ठते पापं, छिद्रहस्ते यथोदकम् ||२|| वीतरागमुखं दृष्ट्वा ,पद्मराग –समप्रभम् | जन्म-जन्...
दर्शनं स्वर्गसोपानं, दर्शनं मोक्षसाधनम् ||१||
दर्शनेन जिनेन्द्राणां, साधूनां वंदनेन च |
न चिरं तिष्ठते पापं, छिद्रहस्ते यथोदकम् ||२||
वीतरागमुखं दृष्ट्वा ,पद्मराग –समप्रभम् |
जन्म-जन्मकृतं पापं, दर्शनेन विनश्यति ||३||
दर्शनं जिनसूर्यस्य, संसार-ध्वान्त-नाशनम् |
बोधनं चित्त-पद्मस्य , समस्तार्थ-प्रकाशनम् ||४||
दर्शनं जिनचंद्रस्य, सद्धर्मामृत-वर्षणम् |
जन्म-दाह-विनाशाय, वर्द्धनं सुख-वारिधे: ||५||
जीवादितत्त्व प्रतिपादकाय, सम्यक्त्व मुख्याष्ट गुणार्णवाय |
प्रशांत-रूपाय दिगम्बराय, देवाधिदेवाय नमो जिनाय ||६||
चिदानन्दैक-रूपाय, जिनाय परमात्मने |
परमात्म-प्रकाशाय, नित्यं सिद्धात्मने नम: ||७||
अन्यथा शरणं नास्ति, त्वमेव शरणं मम |
तस्मात् कारुण्य-भावेन, रक्ष! रक्ष! जिनेश्वर! ||८||
न हि त्राता न हि त्राता, न हि त्राता जगत्त्रये |
वीतरागात्परो देवो, न भूतो न भविष्यति ||९||
जिने भक्तिर्जिने भक्तिर्जिने भक्तिर्दिने दिने |
सदामेऽस्तु सदामेऽस्तु सदामेऽस्तु भवे भवे ||१०||
जिनधर्म-विनिर्मुक्तो, मा भवेच्चक्रवर्त्यपि |
स्याच्चेटोऽपि दरिद्रोऽपि जिनधर्मानुवासित: ||११||
जन्म-जन्मकृतं पापं, जन्म-कोटिमुपार्जितम् |
जन्म-मृत्यु-जरा-रोगं, हन्यते जिन-दर्शनात् ||१२||
अद्याऽभवत् सफलता नयनद्वयस्य, देव! त्वदीय चरणाम्बुज – वीक्षणेन |
अद्य त्रिलोक-तिलक! प्रतिभासते मे, संसार – वारिधिरयं चुलुक – प्रमाणम् ||१३||